________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वति
॥१२॥
RECENGALACK
गात , अथाऽन्येनेतिपक्षः न, तस्यापि रागादिमत्तया तत्प्रणीतस्य तस्याप्रामाण्येन तत्साधकखायोगात , नाप्युपमानात, गोस- दृशो गवय इत्याद्यगृहीतसमयसञ्ज्ञासमभिव्याहृतातिदेशवाक्यश्रवणानन्तरं तादृपिण्डदर्शनात् सज्ञास्मरणसहकृतं समयग्राहक यत्साधर्म्यज्ञानमुत्पद्यते तत् हि उपमानं, न चेहातिदेश्यगोपिण्डस्थानीयः कश्चिदुपलभ्यते येनैतत्सदृशः सर्वज्ञ इति श्रुतकृतस| मयसर्वज्ञसज्ञोपहितातिदेशवाक्यस्योपमातुस्तादृक्पुरुषविशेषदर्शनेन साधर्म्यज्ञानात्समयग्रहणं स्यात् , उपमानोपमेययोरुभयो-४ रप्यतीन्द्रियत्वेनोपमानविषयस्यैवाभावात् , कथं तस्मादपि तत्सिद्धिः। नाप्यर्थापत्तितः, सा हि दृष्टः श्रुतो वार्थोऽन्यथा नोपपद्यत इत्यर्थान्तरकल्पना, यथा जीवतो देवदत्तस्य प्रत्यक्षानुपलम्भागृहाभावदर्शनमन्यथा नोपपद्यत इत्यर्थान्तरस्य बहिर्भावस्थादृष्टस्य कल्पना यथोक्तम्-"प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवन् । अदृष्टं कल्पयेदर्थ, सार्थापत्तिरुदाहृता ॥१॥" न चात्र सर्वज्ञं विना दृष्टादिः कश्चिदर्थो नोपपद्यते येनासौ तदुपपत्तये साध्येत, अभावप्रमाणेन तु तस्याभाव एव साध्यत इति सर्वज्ञवादः परेषां न सङ्गत इति चेन्न, यत्तावदुक्तमतीन्द्रियेऽर्थे इन्द्रियव्यापाराभावान्न प्रत्यक्षेण सर्वज्ञः साक्षास्क्रियत इति | तदाधुनिकप्रत्यक्षापेक्षया सिद्धसाधनं, यत्पुनरुक्तं सम्बद्धं वर्तमानं चेत्यादि तत्र किं संबद्धं गृह्यत एव, उत संबद्धमेव गृह्यते, नाद्यः, अनवहितचेतसेन्द्रियसम्बद्धस्यापि योग्यस्याप्यर्थस्याग्रहणात्, न द्वितीयः, तादृगञ्जनादिसंस्कृतचक्षुषा व्यवहितस्यापि भूनिखातनिध्यादेर्दर्शनात् , अथ स्फटिकाभ्रपटलादिव्यवहितस्येवार्थस्य संस्कारकद्रव्यमहिम्ना कथञ्चित्तत्राप्यस्तीन्द्रियसम्बन्धोऽन्यथाऽन्धस्यापि संस्कृतलोचनस्य तद्दर्शनप्रसङ्गादिति चेन्न, भवखसौ यत्र विस्फारिताक्षो द्रष्टा निध्यादिकं पश्यति, यत्र तु | तारगपि निबिडपट्टपिहितनयनस्तदीक्षते तत्र का गतिः? दृश्यं प्रत्यन्धपिहिताक्षयोरुभयोरपीन्द्रियसम्बन्धाभावाविशेषात् ,
1-1-55%AROSAROSCARR25%
॥१२॥
For Private and Personal Use Only