________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ARMACANAGAR
|विना तत्प्रामाण्यसम्भव: रागादिमद्वचनस्थानृतादित्वेनाप्रामाण्यशङ्कास्पदखादपौरुषेयस्य च तस्य प्रागुपदर्शितन्यायेनासम्भवात् इत्यागमप्रामाण्यान्यथानुपपत्त्या सर्वज्ञः साध्यते, यदि च सर्वज्ञपूर्वकलं विनापि स्वकल्पनया आगमप्रामाण्याभ्युपगमेन कार्यकारणभावनिश्चयः स्यात् , तदा किमजागलस्तनकल्पेन साधितेन तेन, तसादत्रार्थे तत्प्रामाण्यमवश्याभ्युपेयम् , अत्र मीमां| सकाः प्रत्यवतिष्ठन्ते, सर्वज्ञसिद्धौ हि तदागमप्रामाण्यं युज्यते, स एव वाऽद्यापि न सिध्यति तद्वाहकप्रमाणाभावात् , तथा हि न प्रत्यक्षेण सर्वज्ञो निश्चेतुं शक्यते अर्थस्येन्द्रियसनिकर्षेण तस्योत्पादात् , सर्वज्ञस्य चाऽतीन्द्रियलेन तत्सन्निकर्षाभावात् कथमसौ गृह्येत, चक्षुरादीनां सम्बद्धप्रतिनियतार्थग्राहकलेन तद्हणे व्यापाराभावात् , 'सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिभिरितिवचनात् , नाप्यनुमानेन प्रतिबन्धासिद्धेः धर्मिणोऽसिद्धौ हेतोराश्रयासिद्धेः, कथं साध्येन प्रतिबन्धः सिध्येत्, न चाप्रतिबद्धो हेतुर्गमको नाम अतिप्रसङ्गात् , सिद्धौ वा धर्मिणः किं हेतूपादानेन तमन्तरेणापि प्रागेव साध्यसिद्धेः, ननु भवन्तु सर्वज्ञपक्षीकरणे आश्रयासिद्ध्यादयो दोषाः, पदार्थपक्षीकरणे तु क्वामीषामवकाशः? तथा हि स्वर्गापूर्वदेवतादयः पदार्थाः कस्यचित्म|त्यक्षाः प्रमेयखात् , घटादिवदित्यनुमानात् पक्षधर्मताबलेन सर्वज्ञसिद्धिरिति चेन्न, अन्यथासिद्धेः, न हि घटादीनां प्रमेयखेन प्रत्यक्षत्वं किन्तु योग्यत्वे सतीन्द्रियसन्निकर्षवत्वेन, अन्यथाऽतीताऽनागतादीनामपि प्रमेयखेन तथा प्रसङ्गात्, तस्मात् प्रमेय खेऽपि स्वर्गादीनामिन्द्रियसनिकर्षाभावात् प्रत्यक्षख न भविष्यतीत्यनुमानादपि न तत्सिद्धिः, नापि शब्दात , सहि किं तेनैव प्रणीतस्तत्साधकः, अन्येन वा ? यदापि तेनैव तदाऽपि किमसर्वज्ञदशावर्तिना, उत तद्विपरीतेन? नाद्यः, तत्प्रणीतागमस्याप्रामाज्येन ततस्तस्यासिद्धेः, न द्वितीयः, सति सर्वज्ञत्वे तेन तत् प्रणयनं तसाच तत्प्रामाण्यं तसाच सर्वज्ञसिद्धिरिति चक्रकदोषप्रस.
For Private and Personal Use Only