SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R पंचलिंगी बृहदृत्तिः ॥१२०॥ जत्वेन दानादीनामैन्द्रियकत्वेऽप्यन्यतरस्य सम्बन्धिनः स्वर्गादेरतीन्द्रियखात्तत्सन्निकर्षाभावेन तत्र तस्याप्रवृत्तेः, नाप्यनुमानेन तदभावात् , ननु प्रेक्षावतां दानादिषु प्रवृत्तिः फलवती तत्प्रवृत्तित्त्वाकर्षकवणिगादिप्रवृत्त्यनुमानेनैहिकफलनिरपेक्षतया तेषां दानादिप्रवृत्तेः फलवत्त्वेन कार्यकारणभावोऽवसीयत इति चेत्, अवसीयतां नाम तत्तु प्रवृत्तेः फलवत्त्वं, कि वर्गादिफलेन || आहो नरकादिफलेन ? इति संदिह्यते हिंसादिप्रवृत्तेरपि कैश्चित्स्वर्गादिफलत्वेनोपदेशात्, तद्वद्दानादेरपि नरकादिफलत्वमपि कश्चित्सम्भावयेत् , तथा च सन्दिहाना न खर्गाद्यर्थिनो दानादिषु प्रवर्तेरन् , तसात्प्रत्यक्षानुमानाभ्यां हेतुफलभावानिश्चयाद् दानाद्येव स्वर्गादि साधनं न हिंसादीति विनिगमनायां सर्वज्ञागम एव प्रमाणं यदाह-"न मानमागमादन्यत् मुमुक्षूणां हि विद्यते । मोक्षमार्गे ततस्तत्र यतितव्यं मनीषिभिः॥१॥" अस्सद्गुरवोऽप्याहुः-"नो पिच्छामो सवण्णुणो सयं न मणपज्जवजिणाई । न य चोइसदस पुविप्पमुहे पि सुअसुअहरेवि ॥१॥ एवंपि अम्हसरणं ताणं चक्खू गईपईवो य। भय ? सिद्धंतो चिअ अविरुद्धो इट्ठदिखेहिं ॥२॥" तदनभ्युपगमे हिताहितोपायं सम्यगजानानाः खर्गाद्यर्थिनः कदाचिद्धिंसादिष्वपि प्रवर्तेरन् , न च प्रवृत्तावपि ततो वाञ्छितमश्नवीरन् , अनुपायादुपेयासिद्धेः, न जातु क्षीरावसिक्तमपि पिचुमन्दबीजं पत्रपुष्पाद्युत्पादक्रमेण माकन्दफलाय कल्पते, तस्मादागम एव स्वर्गादियोगे दानादीनां प्रमाणम् , अत्रैवार्थे उपपत्त्यन्तरमाह-युक्तिभिरनुमाना| दिप्रमाणोपपत्तिभिस्तस्येति सर्वज्ञस्य साधनं मीमांसकाद्युपन्यस्तसर्वज्ञनिराकारकप्रमाणप्रतिक्षेपेण प्रतिष्ठापनम् 'अनर्थकं | निष्प्रयोजनं, किम् इत्याक्षेपे कथं न 'भे' भवतां 'सर्वज्ञवादिनां' नैयायिकानां भवति' प्रसज्यते अपि तु निरर्थकं प्राप्नोतीत्यर्थः, अयमर्थः-आगमप्रामाण्येन हि प्रायः सर्वतीर्थ्यानां स्वर्गादेर्दानादीनां च कार्य कारणभावनिश्चयः, न च वीतरागं सर्वशं प्रणेतारं ANASANA ॥१२०॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy