________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
५लि
॥११९॥
AAAAAAAA
| माण्यसाधनाय परेणोपन्यस्तस्यापौरुषेयत्वादेरसिया तदुक्तहिंसाया लौकिकहिंसातुल्यत्वेन तत्प्रदर्शकस्य तस्याप्रामाण्यमुपपन्न, बृहदत्तिः तथा च प्रयोगः वेदाः प्रमाणत्वेन न व्यवहर्तव्याः हिंसोपदेशकत्वात् संसारमोचकागमवदितिगाथार्थः ॥८८॥ तदेवं जीवधातोपदेशकागमाप्रामाण्यप्रदर्शनेन तद्रक्षाप्रसाधकस्य तस्य प्रामाण्यं सूत्रकृता प्रतिपिपादयिषितं तच्च सर्वज्ञोपदेशरूपस्यैव तस्य सङ्ग च्छते, असर्वज्ञोपदेशस्य मिथ्याज्ञानविप्रलिप्सादिहेतुकतयाप्रामाण्याघ्रातत्वादिति सम्प्रति सर्वज्ञं तद्वचनस्य च प्रामाण्यमुपपतिभिः साधयितुं गाथायुगलमाहएत्तो चिय अत्थि फुडं सवन्नू विगयदोससन्भावो । कह सग्गमुक्खयोगो दाणतवो विणयमाईणं ॥ ८९॥ । जइ हुन्ज न तवयणं पमाणमेयम्मि हंदि वत्थुम्मि । जुत्तीहिं तस्स साहणमणत्थयं किं न भे भवइ ॥९॥
व्याख्या यत एव हिंसोपदेशक आगमो न प्रमाणं तद्रक्षोपदेशक एवासौ प्रमाणम् 'अत एव' असादेव हेतोः 'अस्ति' विद्यते 'स्फुटं' प्रमाणोपपन्नतया अव्यक्तमिति क्रियाविशेष 'सर्व' सकलम् अनन्तगुणपर्यायावरुद्धभूतभवद्भविष्यत्वरूपपदार्थजातानुगतं लोकं तद्विपरीतं चालोकं केवलज्ञानावलोकेन जानाति यथावत्परिच्छिनत्तीति सर्वज्ञः, अस्तीति वर्तमाननिर्देशः 8 सदा सर्वज्ञसद्भावप्रदर्शनार्थो, न कश्चित्स कालोऽस्ति यत्र मनुष्यलोके सर्वज्ञो नास्ति, कदाचिद्विवक्षितदेशे तदसत्त्वेऽपि देशा- ॥११९॥ |न्तरे तस्यावश्यं भावात् , स च कैश्चिदङ्गनादिपरिग्रहलिङ्गेनानुमेयरागादिरपि तत्तयाऽभ्युपगम्यते, तदपोहार्थ हेतुगर्भविशेषमाह-'विगतदोषसद्भाव विगतो-मोहनीयक्षयेण सर्वथा क्षीणो दोषाणां-रागद्वेषादीनां सद्भाव:-सत्वं यस्य स तथा, अय-1
For Private and Personal Use Only