________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धावधानाभावात् ? नायः, केन पुनः प्रमाणेन कर्तुरभावो निरणायि, किं प्रत्यक्षेण उतान्येन ? न प्रथमः, कर्तुंर्देशकालव्यवधा-18 नादिनाऽप्यनुपलम्भसम्भवेनासदादिप्रत्यक्षस्य चेन्द्रियसनिकृष्टार्थग्राहकत्वेन तदभावग्रहणाप्रवृत्तेः, प्रवृत्तौ वा सौगताद्यागमेष्वपि | तदभावग्रहात्तेषामप्यपौरुषेयत्वापातात्, न द्वितीयः, तेनैव साध्यसिद्धौ किमस्य प्रकृतानुमानस्योपन्यासेन, किश्च यद्यभावात्क
रस्मरणं तदाऽकर्तृकत्वादिति हेत्वर्थः स्यात् , तथा च गोमात्रनिषेधेन तद्विशेषशावलेयपिण्डवत्कर्तृमात्रनिषेधेन तद्विशेषस्य पुरुषस्यापि निषेधः सिद्ध एव, एवं च प्रतिज्ञार्थस्य हेत्वर्थेनाक्षिप्तत्वात् , यदि तां त्यक्ष्यसि तदा प्रतिज्ञाहानिर्निग्रहस्थानं 'स्वीकृतोतत्यागः प्रतिज्ञाहानिरिति' तल्लक्षणात्, न चेत्तदा साध्याविशिष्टो हेतुः, अथ तद्भिया वेदा नित्या इत्यादिप्रतिज्ञां कुरुषे तथापि प्रतिज्ञान्तरं निग्रहस्थानमेव, न द्वितीयः, अनुभवाभावेन कर्तुरस्सरणस्य भारतादिष्वपि समानत्वात् , न ह्यसदादिभिस्तत्कारो व्यासादयोऽनुभूता येन सर्येरन् , तृतीये तु सिद्धसाधनम् अवधानाद्यभावेन सतोऽप्यनुभूतस्यापि कर्तुरमरणोपपत्तेः, न चैतावताऽपौरुषेयत्वसिद्धिः अतिप्रसङ्गात्, साधनविकलश्चाकाशदृष्टान्तः, न ह्याकाशमसर्यमाणकर्तृकत्वादपौरुषेयं |किन्त्वकर्तृकत्वात्, तथा च वेदेऽपि देशकालव्यवधानादिना कर्तुरमरणस्यान्यथाऽप्युपपच्या व्याप्तेरनिश्चयादन्यथासिद्धो हेतुः, तदेवमपौरुषेयत्वासिद्ध्या तेन यद्वेदस्य प्रामाण्यं सिसाधयिषितं परेण तन्न सङ्गतिमियर्ति, अपि च पुरुषगुणदोषनिवन्धनो वचसा प्रामाण्याप्रामाण्यव्यवहारो लोक उपलभ्यते, ततो यदि देवस्य दोषवत्कर्तृपुरुषव्यावृत्या प्रामाण्यमभ्युपेयते तदा गुणवकर्तृव्यावृत्याप्रामाण्यमपि शङ्कयेत, तथा च तदुक्तेषु कुशलकर्मसु नानुष्ठातारो निर्विचिकित्साः प्रवर्तेरन् , ततोजगति सकलोऽपि धर्मव्यवहार उच्छियेत, ईश्वरकर्तृकत्वात्तत्प्रामाण्यमिति चेत् न, तस्य त्वयाऽनभ्युपगमात् निराकारिष्यमाणत्वाच, तदेवं वेदना
For Private and Personal Use Only