________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वतिः
५ लि.
॥११८॥
SAXSAGARLS
घटाद्यभावे प्रदीपे सत्यपि तदुपलम्भाभावात् , यसिंश्च सहकारिसाकल्यवति सति अवश्यं वस्तूपलम्भो भवति तत्तस्य जनकं, यथा बीजमकरस्य, न चेह ताल्वादिसंयोगस्य शब्दोपलब्धौ कदाचिद्व्यभिचारो येनासौ व्यञ्जकतया कल्प्येत, न चैडमूकादिभिव्यभिचारः, तेषां तादृक् तत्संयोगायोगात् , इतरथा भवत्पक्षेऽपि तेषां तत्संयोगेऽपि तदभिव्यक्त्यभावेन व्यभिचारप्रसङ्गात्, यदपि व्यञ्जकधर्मानुविधानाच्छब्दे तीव्रादिभेदोपपादनं तदपि न सम्यग् यतो व्यञ्जकतया विकल्पितानां श्रोत्रादीनां त्रयाणां 3 मध्यान्न तावच्छोत्रस्य तीव्रत्वादयो धर्माः सन्ति येन तदनुविधानाच्छब्देऽपि तद्भेद उपपद्येत, प्रत्युतामच्छ्रवणमूलोपघातकोऽनेन वक्रा तीव्रः शब्द उच्चारित इत्याकारेण श्रोतॄणां प्रतिसन्धानाव्यङ्ग्यशब्दधर्मतयैव तीव्रत्वादेः प्रतीतिर्न तु व्यञ्जकश्रवणधर्मतया तद्धर्मत्वे हि तदुपघातो न स्यात् सहभुवां धर्माणां रूपादीनामिव खर्मिणां प्रत्युपघातकखायोगात् , नापि वायवीयध्वनिधानुविधानात्तीवादिभेदः, ध्वनीनामेव तावत्प्रतीतिर्नास्ति किं पुनस्तद्धर्माणां येन तदनुविधानात्तीव्रत्वादिः शब्दे कल्प्येत, |भवन्तु वा यथा कथञ्चित्तद्धास्तथापि तदनुविधानव्यङ्ग्यस्य न सङ्गच्छते, न खलु सूर्यचन्द्रादेः प्रकाशकत्वाहादकत्वादीन ।
धर्मान् व्यङ्ग्या घटपटादयोऽनुविदधति तथात्वे तेषामपि प्रकाशकत्वादिप्रतिभासप्रसङ्गात् , ताल्वादिसंयोगस्य तूक्तन्यायेन 8 त जनकत्वमेव न व्यञ्जकत्वं, तथा च तीव्रमन्दकोष्टापवनप्रयत्नादिसामग्रीजन्मनस्ताल्वादिसंयोगाच्छब्दे तीब्रादिभेदोपपत्तिः,
तदेवं सामान्येन वर्णात्मकशब्दानामनित्यत्वसिया वेदवचसामपि तत्सिद्धिरुपपना, न हि लौकिकवचनेभ्यो मात्रयाऽपि तद्वचसा भेदमुपलभेमहि येन पुरुषाशक्यनिर्माणत्वादिना हेतुजालेन तेषामपौरुषेयत्वमातिष्ठेमहि, अस्तु तीसर्यमाणकर्तृकत्वादाकाशवदिति वेदापौरुषेयत्वे साधनमिति चेत्, कथं पुनः कर्तुरसरणं ? किमभावात् ? आहो अनुभवायोगान् ? उत तथावि
॥११८॥
For Private and Personal Use Only