________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
EASEA%
क्रमेणैकाकार एवासौ प्रसज्येत, न चैतदस्ति, तसाच्छब्दत्वकत्वगत्वादिनिमित्त एव शब्देऽनुगतप्रत्ययः, सादेतत् कुतः पुनः शब्दगोचरप्रत्यभिज्ञाया भ्रान्तत्वम् , उच्चारणानन्तरमनुपलम्भादिति न युक्तं नित्यत्वेऽपि व्यञ्जकामावादेव प्रदीपाभावादन्धकारान्तरितस्य घटखेव तत्सम्भवात् , अत एव व्यञ्जकधानुविधानादेकखरूपस्यापि शब्दस्य तीव्रमन्दादिभेद उपपद्यत इति चेन, विकल्पानुपपत्तेः, तथा हि किं श्रोत्रं शब्दस्य व्यञ्जकम् उत वायवीयाध्वनयः ? आहो ताल्वादिसंयोगः १ अभिव्यक्तिरपि किं ज्ञप्तिरुतावरणापसारणं नाथः, ज्ञप्तिहेतोः श्रोत्रस्य सन्निहितत्वेन सदा शब्दोपलम्भप्रसङ्गात्, आवरणापसारणरूपायाश्चाभिव्यक्तेः श्रोत्रेणाशक्यत्वात् , तथाविधा वायव एव हि शब्दस्यावारकाः स्युः, न च ते भवन्मते निष्क्रियामूर्तेन श्रोत्रेणापसारयितुं शक्यन्ते, न द्वितीयः, तेहि ज्ञाताः शब्दमभिव्यंजन्ति सत्तामात्रेण वा न प्रथमः, तज्ज्ञानं हि श्रोत्रेण स्थाव, न च तेन
व्यञ्जका ध्वनयः प्रतीयन्ते, वक्तृवक्रोच्चारितस्य शब्दखैव तेन प्रतीतेरुभयानुभवाभावात् , नापि तैः शब्दोभिव्यज्यते श्रोत्रेणैव है तस्य ज्ञप्तेः, न द्वितीयः, सत्तामात्रावस्थितैरपि तैश्चक्षुरादिभिरिख शब्दज्ञप्तेरयोगात् श्रोत्रेणैव तस्य प्रतीतेरित्युक्तखात्, अथ मा
भूच्छब्दस्य ज्ञप्तिरभिव्यक्तिः किन्वावरणापसारणरूपा सातैभविष्यतीति चेत् न, सर्वगतस्यामूर्तस्य शब्दस्याकाशादेरिवावरणासम्भवात् , सम्भवे वा व्यञ्जकैर्ध्वनिभिस्तादृग्वायुरूपावरणापसारणात्सर्वत्र सर्वैरपि योगपद्येन शब्दः श्रूयेत, न तृतीयः,तस्य शब्दजनकत्वेनाभिव्यजकखायोगात्, तथा हि न तावत्तस्य ज्ञापकत्वमभिव्यञ्जकत्वं, तदा हि बधिरस्यापि वक्तुरपरेषां च तादृशां शब्दश्रवणप्रसङ्गात् , तथा च बधिराभावापत्तिः, नाप्यावरणापसारकत्वं, प्राग्वत् सर्वैरपि तच्छुत्यापत्तेः तसाजनकत्वमेव तस्य, अस्ति च जनकाभिव्यञ्जकयोर्महान् विशेषः, यसिन् सति हि नियमेन पदार्थोपलंभो जायते तत्तस्य व्यञ्जकं यथा प्रदीपो घटादेः
For Private and Personal Use Only