________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥११७॥
GROUGUST
इत्यादिप्रत्यभिज्ञानमेव पूर्वापरकालभाविनोः शब्दयोरेकत्वं गृह्णाच्छब्दस्य नित्यखमवगमयतीति चेत् न, पूर्वापरशब्दगतशब्दख-15 बृहद्वृत्तिः सामान्यविषयतयैव चरितार्थत्वेनास्य प्रत्यभिज्ञानस्य लूनपुनर्जातकेशादिष्विवैकव्यक्तिविषयतया भ्रान्तखात्, अत एवं प्रदीपा- ५ लि दिषु सैवेयं प्रदीपज्वालेत्याद्याकारायाः प्रत्यभिज्ञाया एकज्वाला व्यक्तिविषयताऽभ्युपगमे भ्रान्ततैव, ननु लूनपुनर्जातकेशादीनामन्तरा विच्छेदनानुपलम्भात्तत्प्रत्यभिज्ञाया भवतु भ्रान्तख, प्रदीपज्वालादेस्तु नैरन्तर्येण प्रतिभासात्तद्गतायास्तस्याः कथं तथात्वम् ? इति चेन्न, तैलवादिक्षयेणानुमानाज्ज्वालादिव्यक्तिभेदसिद्धौ तदेकखग्राहिकायास्तस्या भ्रान्तत्वोपपत्तेः, तसात्सामान्यगोचरमेव शब्दगतं प्रत्यभिज्ञानं, न च शब्दगतं सामान्य नास्तीति वाच्यं, शब्दोऽयं शब्दोऽयमित्यायनुगताकारप्रत्ययस सामान्य विनाऽनुपपत्तेः, श्रावणत्वहेतुकोऽयमनुगतप्रत्यय इति चेन्न, चाक्षुषत्वादिनिबन्धनो रूपादिष्वप्यनुगतप्रत्यय इत्यपि कल्प्येत, तथा च तत्रापि रूपत्वादिसामान्याभावप्रसङ्गः, प्रसज्यतां का नो हानिरिति चेन्न, पीतसितनीलत्वादिष्वेकाकारप्रत्ययापातात् , मिनाकारतया नीलादीनां सर्वैरपि प्रतीतेः कथमेवम् । इति चेत्, कथं पुनरेषां भिन्नाकारता विलक्षणसामग्रीजन्य: त्वात् ? इति चेन्न, भवतु सामग्रीवैलक्षण्यादेषां भेदस्तथापि चाक्षुषत्वमात्रनिमित्तकोऽनुगतप्रत्यय एकाकारो भवनेषां केन वार्येत ? भवत्येव रूपं रूपमित्यायेकाकारोऽनुगतप्रत्ययो नीलादिष्विति चेन्न, नीलेऽपि पीताद्याकारानुगतप्रतीत्यापत्तेः चाक्षुषत्वाविशेषात् , ननु रूपस्य वैचित्र्याद्रूपत्वनीलत्वादिसामान्यनिबन्धन एवानुगतप्रत्ययो भवतु शब्दस्य तु तदभावात् , श्रावणत्व
॥११७॥ हेतुक एवासावास्तामिति चेन्न, शब्दस्यापि तीब्रमन्दादिभेदेन ककारगकारादिभेदेन च वैचित्र्योपपत्तेः, तथा च श्रावणत्वमात्रहेतुकत्वे सर्वेष्वप्येषु तीव्र इत्येव वा मन्द इत्येव वेत्यादिरूपेण तथा ककाराविष्वपि ककार इत्येव वा गकार इत्येव वेत्यादि
For Private and Personal Use Only