SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ERASA खयमगृहीतसमयेन परप्रत्यायनस्याशक्यखात्, वाक्यप्रयोगस्य च तदर्थखात् तसान्नालिकेरद्वीपवासिन आर्यावर्त्तमागतस्य । धूमादग्निप्रतिपत्तिवदगृहीतसम्बन्धाच्छन्दार्थप्रतिपत्तेरनुपपत्तेर्नित्यः शब्दः, तथा च शब्दमयत्वावेदवचाप्रपञ्चोऽपि नित्यः, तथात्वे च तत्रापि तस्यैव पुनरुच्चारणादिना सम्बन्धग्रहः सुशक्य इति चेन्न, विनश्वरस्यापि शब्दस्य मेघादेरिव सम्बन्धग्रहसम्भवावर | अन्यथा मेघादेरपि वर्षाद्यनुमानाभावप्रसङ्गात् , तथा लेते दूरादृश्यमाना मेघा वृष्टिमन्तो गम्भीरस्तनितसौदामिनीमचात् प्रागुपलब्धताहग्मेघवदित्यत्र हि सम्बन्धग्रहणसमये यस्खा मेघव्यक्तेवर्षेण सह सम्बन्धो ग्रहीतुमारब्धस्तस्या आशुतरविनाशितयाऽन्यस्याः सम्बन्धो गृहीतः, तथाऽनुमानकालेऽपि यन्मेघव्यक्तिदशेनेन सम्बन्धं स्मृतवाननुमाता तस्यास्तदैव प्रध्वंसादपरया वर्षमनुमिनोति, एवं च यद्याशुविनाशितया मेघव्यक्तेः सम्बन्धग्रहो नेष्यते तदाऽनुमानकालेऽपि प्रागननुभूतत्वेन सम्बन्धस्स मरणामावात् वर्षा-1 नुमान न स्यात् , अस्ति चेदं, न च तत्सम्बन्धादिग्रहं विना संभवति, अगृहीतसम्बन्धाल्लिङ्गाल्लिङ्गिज्ञानानुदया, तसादस्थिराणामपि सम्बन्धग्रहोऽभ्युपेयः, न च मेघस्य नास्त्याशुविनाशिखमिति वाच्यं, यत्सत्तत्क्षणिकं यथा जलधर इत्यादिना क्षणभ साधने सौगतैरुभयवादिसिद्धतया जलधरस्य व्याप्त्यंशत्वेनोपन्यासात्, न च तत्र मेघवर्षसामान्ययोः स्थिरलेन सम्बन्धग्रह इति वाच्यं, प्रकृतेऽपि शब्दाभिधेयसामान्ययोस्तगृहस्स दुर्निवारखात्, सामान्यस्वार्थक्रियाद्यक्षमतात्तत्सम्बन्धग्रहेऽपि न कश्चिदुपयोग इति चेन्न, 'निर्विशेषं न सामान्यं भवेच्छशविषाणवत्' इति न्यायेन विशेषनान्तरीयकखात् सामान्यस्य तदुपगृहीतयोव्यक्त्योरेव सम्बन्धग्रहाभ्युपगमात् अन्यथा भवत्पक्षेऽप्यस्य दोषस्य समानखात्, समानं चैतत्सर्व प्रसिद्धानुमानेऽपि, अन्यथा तत्रापि प्रतिक्षणमुपजायमानाया अपरापरधूमव्यक्तेः सम्बन्धग्रहणतत्सरेणाद्यमावादश्यनुमानं न स्यात्, ननु स एवायं शब्द CASPER For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy