________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
बृहद्वृत्तिः | ५लि.
॥११६॥
तात, न द्वितीयः, तद्धि सर्वथा कर्बभावरूपमेव, एवं चाकर्तृकत्वादकर्तृका बेदा इत्यर्थः स्यात् , तथा च साध्याविशिष्टो हेतः, नाप्यागमेन सिद्धप्रामाण्याद्धि तमादपौरुषेयत्वं सिध्येत्, न चापौरुषेयत्वसिद्धं विना तस्य प्रामाण्यसिद्धिरिति परस्पराश्रयप्रसङ्गात् , ननु पुरुषाणां रागादिमत्त्वेन तद्वचनस्यानृतत्वशङ्कया न ततः प्रेक्षावतामैकमत्येन सदनुष्ठाने प्रवृत्तिः स्यात् , अस्ति चासौ, ततस्तत्प्रवृत्त्यन्यथानुपपत्त्या वेदस्थापौरुषेयत्वावसाय इति चेत्र, ननु किमज्ञाताद्वेदार्थात्तदुक्तानुष्ठाने प्रवृत्तिख़ताद्वा, नाद्यः, हिताहितप्राप्तिपरिहारोपायपरिज्ञानमन्तरेण प्रेक्षावत्प्रवृत्त्यनुपपत्तेः, तदुपायश्च | वेदार्थस्तदज्ञानात्कथं तत्र प्रवर्तेरन् हितैषिणः, न खलु बुभुक्षुरपि क्षुहुःखनिवृत्तिसाधनं ममेदमित्यज्ञात्वैव तनिवृत्तये भोज| नादौ प्रवर्त्तते तदसाधनेऽपि प्रवृत्तिप्रसङ्गात् , न द्वितीयः, वेदार्थज्ञानोपायाभावात् , पूर्वपूर्वोपाध्यायव्याख्यानात्तज्ज्ञानमिति |
चेन्न, तेषामपि रागादिमत्तया विप्रलिप्साऽनाभोगादिना विपर्ययेणापि व्याख्यानसम्भवात्कथं तदर्थनिश्चयः स्यात्, तमान है प्रसज्यप्रतिषेधरूपमपौरुषेयख सङ्गतिमियत्ति, न द्वितीयः, अनभ्युपगमात्, न ह्याकारत इतरपुरुषसदृशेन सर्वज्ञेन केनचि
निर्मिता वेदा इति सर्वज्ञमपडुवानीमांसकैरभ्युपगम्यते, एवं च प्रसज्यपर्युदासरूपाभ्यां नअर्थाभ्यामपौरुषेयजस्थानवधारणान्न ततो वेदप्रामाण्यसिद्धिः, ननु गृहीतसम्बन्धो हि शब्दः स्वार्थ प्रतिपादयति, अन्यथाऽनवगतसङ्केतस्यापि गोशब्दश्रवणाककुदादिमदर्थप्रतीतिप्रसङ्गात्, न च शब्दस्योचरितप्रध्वंसित्वेन समयग्रहः कत्तुं शक्यते, तथात्वेऽप्यसकृदुच्चारणात्समयो ग्रहीष्यत इति चेन्न, सद्यो विनष्टत्वेन पूर्वस्य पुनरुच्चारणासम्भवात् , अन्यस्यापूर्वस्यैवेदानीं श्रवणविवरमध्यासीनस्य श्रवणात् , तथा च न शब्दस्याभिधान्यापारावगमः, समयव्यपेक्षा हि शब्दस्यार्थप्रत्यायनशक्तिरभिधा, तदनवगमाच्च कथं तेन परःप्रत्याय्येत,
H
॥११६॥
For Private and Personal Use Only