SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पकरणसहकृतश्छागादिवध एव यागः, आहो मत्रसंस्कृतेतरोपकरणकलापः, छागवधस्तु तदहिभूतः, नाद्यः, तदा हि यागाव | कस्य स्खों भवेत् , हन्यमानस्य छागादेयाग एवान्तर्भावात् , न द्वितीयः, एवं हि प्रकृतच्छागवदितरेषामपि वध्यमानानां छागादीनां वर्गप्राप्तिप्रसङ्गात् यागसामय्या बहिर्भावाविशेषात् , मत्रसंस्कारात्प्रकृतच्छागादेस्तत्प्राप्तिरिति चेन्न, मत्रसंस्कारस्य तत्प्राप्तिप्रयोजकलाभ्युपगमे परेऽपि तेन संस्क्रियन्तां परार्थसाधनप्रवणखात्सत्पुरुषप्रवृत्तेः कुयोनिपकादुद्धरणेन तेषां स्वर्गसौ-1 धाधिरोपणस्य च परार्थखात्, न चैतद्भवदभिमतयागात्सिध्यति, तमाद्यागाच्छागादेः खर्ग इत्यसदेतत् , एवमनभ्युपगमे तु | संसारमोचकादिप्रणीतापि हिंसा खगेहेतुः स्यात् , तदागमानामप्रामाण्यान्न तदुक्ता हिंसा तद्धेतुरिति चेत्, ननु वेदस्य कुतः प्रामाण्यम् इति वक्तव्यम् , अपौरुषेयखादिति चेत्, किमिदमपौरुषेयत्वं? प्रसज्यप्रतिषेधरूपं पहुंदासरूपं वा, न प्रथमः, करे| पुरुषाभावनिश्चायकप्रमाणाभावात् , तथा हि न प्रत्यक्षेण तदभावो निश्चीयते, इन्द्रियसदर्थसंनिकर्षाद्धि प्रत्यक्षं जायते, न च चिरकालातीतेषु पुरुषेष्वसदादीन्द्रियसंनिकर्षोऽस्ति येन तत्प्रत्यक्षतया तद्वाक्यरचनायां कर्तृसद्भावं, वेदे च तदनुपलम्भेन तदभावं प्रतिपद्यमहि, नानुमानेन तदभावात् , वेदा अपौरुषेया अदृश्यकर्तृकत्वादाकाशवदिति तदस्तीति चेन्न, अदृश्येति किमदृश्यमानत्वं विवक्षितं, दर्शनायोग्यत्वं वा, नायः, तदा हि विद्यमानस्यैव कर्तुर्देशान्तरव्यवधानेनासदादीनामदृश्यतया तत्काव्यस्याप्यपौरुषेयत्वप्रसङ्गात् , न चाऽकाशमप्यदृश्यकर्तृकत्वादपौरुषेयत्वमपि तु अकर्तृकत्वादेवेत्यसमर्थविशेषणश्च हेतुः, न द्वितीयः, तद्धि प्रध्वस्तघटवत्कालान्तरव्यवधानेन वा शशविषाणवदत्यन्तासत्त्वेन वा ? न प्रथमः, कालव्यवधानेन दर्शनायोग्यकर्तृकत्वस्य जीर्णकृपारामादिषु पौरुषेयत्वेन व्याप्तत्वाद्धेतोविरुद्धताप्रसङ्गाद्, अन्यथा भारतादीनामप्यपौरुषेयत्वापा For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy