SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दावपूर्वोत्पादो भवद्भिरभ्युपेयते, पुंस्येव तदभ्युपगमात्, यदाह - "संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः” । कथञ्चिदन्य कृतादपि शुभकर्म्मणोऽन्यस्य तदनुमोदनादिद्वारेणापूर्वोत्पत्तिरिष्यते, न च प्रकृतहिंसायाः शुभकर्मतेत्यावेदितखात्, भवदभ्युप| गमेन तस्यास्तथाखेऽपि छागादेः पशुतयाऽज्ञानबाहुल्यात्, मृत्युमहाभयविद्दललाच्च, न तदनुमोदनादिसम्भवस्तत्कथं तदुत्पादस्तत्र सङ्गच्छेत, न चानुमोदनयाऽन्यस्थापि शुभापूर्वोत्पाद इति स्वदर्शन श्रद्धालुतामात्रमिति वाच्यं - " निहन्ता चानुमन्ता च विशस्ता क्रयविक्रयी । संस्कर्त्ता चोपहर्त्ता च खादकश्चेति घातकाः ॥ १ ॥" इत्यादिना हिंसानुमन्तुर्घातकव्यपदेशेन तदनु| मतिजन्यपापसंश्लेषवदहिं सानुमन्तुरपि तदनुमतिप्रभवपुण्यसंश्लेषस्य समानन्यायतया मनुमुनेरप्यभिप्रायविषयत्वात् न तृतीयः, | तदा यभिचारार्थादपि श्येनयज्ञादेस्तत्कर्तुरभ्युदय फलापूर्वोत्पादप्रसङ्गात्, वेदमन्त्रप्रयोगाविशेषात्, अस्त्येव तत्रापि तदुत्पादः कथमन्यथाऽभ्युदयाभ्यधिकविपक्षादिप्रतिक्षेप इति चेन्न, प्राग्भवीयादेवा पूर्वात्तदुपपत्तेः प्राच्यजन्मसञ्चितस्यैवा पूर्वस्येह जन्मनि प्रायो भोग हेतुखेन श्रुतेः, यदाह - "यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्त्तते ॥ १ ॥ यद्येवं श्येनादियज्ञात् प्रागपि तत्फलोत्पादप्रसङ्गः, नियमेन तु तदनन्तरं जायमानोऽसौ तदुत्थापूर्वस्य स्वात्मनि कारणत्वं निश्वाययतीति चेत् न, सहकारिसमवधानाभावादपूर्वे सत्यपि फलानुत्पादोपपत्तेः, नहि समर्थमपि बीजं यावन्न क्षितिजलतेजःप्रभृति सहकारिचक्रमध्यमध्यास्ते तावदङ्कुरं जनयितुमलं, कुशूलनिहितादपि तस्मात्तदुत्पत्तिप्रसङ्गात्, तथेहापि श्येनादिलक्षणसहकारिसन्निधावेव प्राच्यापूर्वात्फलोत्पादः, अथ श्येनादेः क्रियात्वेनोत्पन्नप्रध्वंसित्वात्सहकारित्वानुपपच्या, तज्जन्याऽदृष्टस्यैव तत्र हेतुतेति चेन्न, क्रियाया अभावस्यापि सहकारिताविरोधात् अभ्युपगम्यन्ते हि भव For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy