________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
C
पंचलिंगी
बृहद्घत्तिः
॥११४॥
वादविधिना खविषयादन्यत्र नियम्यत इति वस्तुस्थितिः, न चेह तथाऽस्ति कामनापूर्वकतया सर्वथाऽपायनिमित्तत्वेनोत्सर्गविधिप्रतिकूलतया प्रकृतहिंसाया अपवादविषयत्वाभावेनोत्सर्गविधेस्तत्र प्राप्तेरेवाभावात् , तथा च कथं तत्परिहारेणोत्सर्गविधेर्न हिंस्यादित्यादेर्यागादन्यत्र चरित्रार्थताभिधानं भवतः शोभेत, भवतु वा कथश्चिदपवादविषयसमस्यास्तथापि शास्त्रान्तरविषयत्वादस्य न्यायस्य न धर्मशास्त्रेऽधिकारः, तत्र ह्यमदुक्त एव प्रकार उत्सर्गापवादविध्योाय्यः, किञ्च यदि न हिंस्यादित्यादेरुत्सर्गविधेरनायाससाध्यात्वर्गादिफलं न सिध्येत् तदा क्लेशसाध्ये यागादिहिंसाकर्मण्यपि प्रवृत्तिरभ्यनुज्ञायेत , सुसाध्या द्धि कर्मणः साध्यासिद्धौ दुःसाध्येऽपि तसिन् पुंसां प्रवृत्तिदर्शनात् , न चैवमिहास्ति सर्वतीर्यैरेव स्वशास्त्रेऽप्यहिकामुष्मिकाभ्यु| दयावन्ध्यनिमित्तत्वेनास्याः प्रसाधनात् , "सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत? । सर्वतीर्थाभिषेकाश्च यत्कुर्यात् प्राणिनां दया ॥१॥" इत्यादिना व्यासमुनिनापि च सर्वधर्मसाधनेभ्योऽहिंसाया एव गरीयस्त्वेन प्रतिपादनात् , तदेवमुत्सर्गविधेरप्यभिमतसिद्धौ संभवन्त्यां प्रयत्नेन प्रकृतहिंसायां प्रवृत्तिनूनं स्ववर्णसुलभं गायमेवाभिव्यनक्ति, तसादुक्तन्यायेन भेदप्रदर्शनान्न भवदसदभिमतयोरुत्सर्गापवादविध्योः समतेति, ननु तथाऽपि यथा निःसर्गेण प्राणप्रहाणकरणमपि विषं तादृग्मत्रसंस्कृतमारोग्यादिनिमित्तं भवति, तथा खरसतोऽपायहेतुरपि हिंसा यागादौ वैदिकमत्रसंस्कृता स्वर्गादिनिबन्धनं सम्पत्स्यत इति ? चेत्, संस्कारो ह्यत्रापूर्वोत्पादो विवक्षितः स च किं हिंसाया उत तद्द्वारेण छागादेः, आहो हिंसाकात्मनः ? नाद्यः, प्राणवि-5॥११॥ योजनात्मिकायास्तस्या अभावरूपत्वेनाचैतन्येन वाऽपूर्वसमुत्पादाभावात् , भावरूपे चेतन एव च तदभ्युपगमात्, न च हिंसा| यास्तदभ्युपगमेऽपि काचिदिष्टसिद्धिः, तस्यास्तज्जन्यफलानवाप्तेः, न द्वितीयः, अनभ्युपगमात् न हि पुरुषकृताधागादेश्छागा
CCCOCONTENCA-4
For Private and Personal Use Only