________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
यूथव्यादिवाधस्तत्र भवनाप द्रव्यस्तवः समीचीन पोमायं पशुमालमेत स्वर्गकामा यागे गवा
GOOKSAMAGRANENCES
किसिपलाल वा ॥१॥" अर्हद्विम्बविलोकनादिना सञ्जातचरणपरिणामा भव्यसत्त्वा विरतिस्वीकारेण मुक्तिमवाप्याभवं पृथिव्यादीन् रक्षिष्यन्तीत्यध्यवसायेन च तेषां तत्र प्रवृत्तिदर्शनादीर्यासमितस्य मुनेः सोपयोगं पथि गच्छतः कथञ्चित्पादाभिहतपिपीलिकाबाधवत् पृथिव्यादिबाधस्तत्र भवन्नपि न तत्त्वतः पापहेतुर्विशुद्धाशयतया परिणामसुन्दरखात्, एवं चौत्सर्गिकभावस्तवप्रेप्सयैव गृहिणां प्रवृत्तेरापवादिकोऽपि द्रव्यस्तवः समीचीन एव, न चैवमापवादिक्यामपि यागादिहिंसायामेवं वि| धाभिप्रायेण भवता प्रवृत्तिरुपलभ्यते 'चित्रया यजेत पशुकाम:' अग्नीषोमीयं पशुमालभेत स्वर्गकाम, इत्यादिवेदवचनादैहिकामुष्मिकपशुखर्गादिकामनयैव, न हिंस्यात् इत्याद्यौत्सर्गिकहिंसानिषेधवाक्यार्थनिरपेक्षतया हठेनैव यागे गवादिहिंसाप्रवृत्त्या परमनिघृणताया एवाभिव्यञ्जनात् , कामनापूर्विका च हिंसाऽन्यहिंसावहुःखवेदनीयफलसाधिकैव सर्वशास्त्रेषु गीयते, उत्सर्गानुगुण्येन च प्रवर्त्तमानोऽपवाद आत्मानमश्नुते, यथा जैनानां तेषां हि भावस्तवरूपोत्सर्गविधिहेतुतयाऽकामनापूर्वकत्वेन च द्रव्यस्तवरूपस्याऽपवादविधेः प्रवृत्याऽपवादोपपत्तेः, द्वयोरपि चानयोरकामनापूर्वकत्वेनानन्तर्यपारम्पर्याभ्यां मोक्षफलतया च प्रायः परस्परानुगमात्, अन्योन्यानुगतयोरेव वाऽनयोस्तथाखात्, न चैवं भवत्पक्षेपि, तत्र हि यज्ञादिहिंसाविधेरापवादिकस्य कामनापूर्वकतया न हिंस्यादित्यादेश्वोत्सर्गविधेरकामनापुरस्सरतया उभयोरपि परस्परसातव्येण प्रवृत्याऽन्योन्यानुगमायोगात् , तथा च कथमपवादविधेरुत्सर्गानुगुण्यं स्यात्, येनानयोरुत्सर्गापवादविधिभावः कल्प्येत, न चास्माकमपि प्रकृत-६ हिंसायाः कामनापूर्वेकत्वं नास्तीति वाच्यं, सर्वत्र यज्ञादिविधिषु कामामिलापश्रुतेः, तां विनाऽहिंसाविधाविव तदुपादानं न स्वात् , यदप्यपवादविषयं परिहत्येत्यायुक्तं तत्राप्युत्सर्गविधिस्तावत्सामान्यरूपतया प्राप्तौ सत्यामपवादविषयेऽपि प्रवर्त्तमानोऽप
For Private and Personal Use Only