________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥११॥
SHORORSCROSS
व्याघातात , यागान्तःपातिनी हिंसेत्यनेन हिंसाशब्दवाच्यखमभ्युपगम्या हिंसेत्यनेन साध्यनिर्देशेन तस्यास्तनिषेधात , अग्नीषोमीयं पशुमालभेतेत्यादिना केवलयागच्छागादिवधाभिधानप्रयोगार्हेरालम्भादिशब्दैरभिधानाच्च, अपिच न हिंस्यात् सर्वभूतानीत्यनेन हिंसानिषेधकेन वेदवाक्यान्तरेण बाधितत्वात् , प्रकृतहिंसाया अहिंसात्वसाधनमागमविरुद्धत्वान्न साधीयः स्यात्, एतदौत्सर्गिको हिंसानिषेध आपवादिकस्तु यागादौ तद्विधिन चोत्सर्गेणापवादो बाध्यते, अपवादविषयं परिहृत्योत्सर्गस्य प्रवृत्तेः, एवं च. यागादन्यत्र हिंसानिषेधवाक्यं चरितार्थम् , यागे तु हिंसावाक्यार्थान्यथाऽनुपपत्त्या तद्विधिरस्तु, यथा भवतामौत्सर्गिको भावस्तव आपवादिकस्तु द्रव्यस्तवः पृथिव्यादिभूतबाधकोऽपि भगवद्भिरनुज्ञातः, न चासौ न धर्महेतुस्तथेहापि सर्व समानमिति चेत् , सत्यं, द्रव्यस्तवस्य धर्महेतुत्वेऽपि तजनितशुभाध्यवसायांशस्यैव भगवतो बहुमतत्वात् तस्यैव च मुक्त्यङ्गतया तेन प्रतिपादनात्, कथं तर्हि एतावान् जिनभवनादिलक्षणस्तदारम्भः ? इति चेन्न, असाधरणं शुभालम्बनं विना शुभभावस्थानुदयेन तत्कारणतया भावस्तवासमर्थानां गृहिणामेव तदनुज्ञानात् , यदाह-"जो चेव भावलेसे सो चेव य भगवओ बहुमओ उ । न तओ विणेयरेणं"ति न ततो भावलेश इतरेण द्रव्यस्तवेन विना स्यादित्यर्थः, नतु भावस्तव इव स्वरसेनैव द्रव्यस्तवो भगवतोऽभिमतः षड्जीवनिकायसंयमस्वैवानन्तर्येणात्यन्तिकमुक्तिसुखसाधकतमतया तस्येष्टत्वात् , आह च-"छज्जीवहियं जिणा विति" न च सांसारिकसुखलिप्सया जैनगृहिणां द्रव्यस्तवेऽपि प्रवृत्तिः, किन्तु तन्निरपेक्षतया कृषीवलानां कृषौ तुषबुसादिनिःस्पृहतया कण-| ट मनोरथेनेव नित्यानन्दमयनिःश्रेयसाभिलाषेणैव तेषां तत्र प्रवृत्तेः, अन्तरा भविष्णोर्नरसुरादिसुखस्य पलालस्येव सम्पातायातत्वेन गौणतया तैरध्यवसानात् तदुक्तम्-"जिणधम्मो मोक्खफलो सासयसोक्खो जिणेहि पन्नत्तो । नरसुरसुहाई अणुसंगियाइं इह 8
११॥
For Private and Personal Use Only