________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'आगमः ' सिद्धान्तस्त्रयीलक्षणः 'जीवघातसन्दर्शक:' प्राणिहिंसाप्रतिपादक इति हेतुगर्भ विशेषणं 'शुद्ध' आदिमध्यावसानलक्षत्रिकोट्यां परस्परविरोधादिवचनदोषकलङ्कवर्जितः हिंसोपदेशकागमानां संसारनिबन्धनतया प्रायः सर्वैरेवाऽविगानेनाप्रामाप्योपगमात्कथं शुद्धता स्यात् ? इत्यर्थः ननु वैदिकहिंसाया अशुभास्रवत्वं कुतः सिद्धं येन तत्प्रतिपादकस्य वेदस्याशुद्धता प्रसा ध्यते ? इति चेत् प्रमाणादिति ब्रूमः तथाहि यज्ञान्तः पातिनी हिंसा पापहेतुः हिंसाखादितरहिंसावत्, न चास्या हिंसात्वमसिद्धं प्राणवियोजनात्मिकायास्तस्याश्छागादीनां यागेऽपि सर्वैरेव प्रतीतेः ननु प्रकृतहिंसा अहिंसा वेदविहितत्वात् सन्ध्याव - न्दनादिवदिति, अनेनानुमानेनाहिंसात्वसिद्ध्या हिंसात्वनिषेधेन कथमस्याः पापहेतुलं सिध्येत् ? इति चेन्न, विकल्पानुपपत्तेः, किमिदमहिंसात्वं किं हिंसानिषेधमात्रं, हिंसासदृशपदार्थान्तरत्वं वा, हिंसा फलासाधकत्वं वा, हिंसाशब्दावाच्यत्वं वा ? न प्रथमः, उष्णत्वग्राहिणा वह्नावनुष्णखानुमानवच्छागादिप्राणवियोजनरूपहिंसात्वग्रादिणा प्रत्यक्षेणाऽहिंसात्वानुमानस्य बाधेन हेतोः कालात्ययापदिष्टखात्, न द्वितीयः, अनभ्युपगमात्, अब्राह्मण इत्यादौ ब्राह्मणनिषेधेन वर्णत्वादिना तत्सदृशक्षत्रियादिवर्द्धिसासदृशं पदार्थान्तरं पापहेतुतयाऽली कस्तेयादिकं भवेत् न चात्र हिंसात्वनिषेधेन प्रकृतहिंसाया अलीकादिपदार्थान्तररूपखं भवताऽभ्युपगम्यते, न तृतीयः, श्येनेनाभिचरन् यजेतेत्यादिनाऽभिचारप्रयोजनश्येनादियागान्तः पातिन्या हिंसाया वेदविहितत्वेऽपि हिंसा फलसाधकतया हेतोरनैकान्तिकत्वात् न च साऽपि धर्महेतुरिति वाच्यम्, अभिचारजनितप्रतिपक्षादिहिंसाया अभ्युदयादिफलधर्महेतुखाभावे तीर्थिकानामविप्रतिपत्तेः, न चान्यफलोऽपि धर्मोऽभ्युपेयते येन तद्धेतुखमभिचारहिंसायाः कल्प्येत, यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म इति कणादमुनिवचनात् नापि चतुर्थो,
For Private and Personal Use Only