________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥११॥
ACCACADEMICCORDS
पुद्गलैः सह सम्बन्धो बन्ध इति तल्लक्षणश्रवणादिति चेन्न, आस्रवस्योत्पत्त्यनन्तरमेवाहत्य बन्धहेतुत्वात् शरीरस्य स्नेहाभ्यगाद्रेणुनिकरसंश्लेषवदात्मनः कषायेन्द्रियाद्यास्रवस्नेहलेपादक्षेपेण कर्मरेणुसम्बन्धश्रुतेः, न चैवं बन्धस्य साक्षादास्रवं प्रतिहेतुत्वं,
वृद्धृत्तिः न हि बद्धमात्रमेव कर्म खफलमास्रवरूपं जनयितुमलं, क्षेत्रकालादिसहकार्यापेक्षया उदयावस्थाप्राप्तस्यैव तस्यार्थक्रियाकरणसामर्थ्यात् तस्मात्परस्परं कारणत्वाविशेषेऽप्यनयोरास्रवहेतुबन्ध इति न बन्धस्य लक्षणं किन्तु यथोक्तमेव, तथा च शुभाशुभकर्मादानहेतुरास्रव इत्यास्रवस्यासाधारणं लक्षणं युक्तमुक्तमिति नानयोः समकक्षतेति गांथार्थः ॥८७॥ प्राणवधादिभ्योऽशुभास्रव इत्युक्तं तत्र प्राकृतलोकविहितात्प्राणवधादसौ भवति, वेदविहितात्तु तसाच्छुभास्रव एवेति केचिन्मन्यन्ते तान् । सम्प्रत्यनिष्टप्रसञ्जनेन निरसितुमाह
पाणवहाईहिन्तो सुहासवो किं न सोयरीयाण । कह हुज आगमो जीवघायसंदंसगो सुद्धो ॥ ८८॥ व्याख्या पक्षान्तरद्योतकं यदीत्यव्ययमिह योज्यते अर्थानुरोधात् , तेन प्राणवधादिभ्यः शुभास्रवो न भवतीति तावत्प्रायः सकलतीर्थ्यानामविप्रतिपत्तिसिद्धं, यदि पुनः प्राणवधादिभ्यो जीवहिंसादिभ्योऽपि आदिशब्दात्तदुपदेशानुमत्यादिग्रहः शुभास्रव | उक्तशब्दार्थोऽभ्युपगम्येत, तदा किम् ? इत्याक्षेपे शौकरिकाणां सौनिकानामपि 'किमिति' कुतो हेतोः 'न' नैवासौ इष्यत इति है | शेषः, तेषामपि नित्यं हिंसाप्रसक्तत्वाद्विशेषेणासौ प्रसज्येत न चेदमिष्टं, ननु सौनिकानां पिशितादिलोलतया प्रवृत्तेर्न तद्धि-
I n सायाः शुभास्रवत्वं, यागादिकारिणां तु वेदविहितत्वात्प्रवृत्तेस्तस्यास्तद् भविष्यति, अत एव तेषां ततः स्वर्गादिमहाभ्युदय| सिद्धिरित्यत आह-'कहे' त्यादि, कथमित्यत्रानुस्खारलोपः प्राकृतत्वात् , 'कथं' केन प्रकारेण न कथश्चिदित्यर्थः 'भवेत्' स्यात् है
ACHARACACY
For Private and Personal Use Only