________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
क्रियाकाण्डात् 'प्रथमः' पूर्वः शुभास्रव इत्यर्थः, जायत इति शेषः, प्राणिवधादिभ्यस्तु 'तुः पुनरर्थो गाथान्तर्वर्ती इह योज्यते, तेन प्राणातिपातादादिशब्दान्मृषावादकषायादिभ्यश्चाप्रशस्तेभ्यः कर्मभ्यः पुनर्द्वितीयोऽशुभास्रवः,भवति हि यथाक्रमं सत्क| त्यासत्कृत्याभ्यामसतोरपि शुभाशुभाध्यवसायादिरूपयोः शुभाशुभास्रवयोराविर्भावः,सतोश्च वृद्धिः, इह च शुभास्रवस्य हेतुसामान्योपादानेऽप्यशुभास्रवस्य यत्तद्विशेषोपादानं तत्प्राणिवधादीनामत्यन्तहेयताख्यापनार्थम् , अत्र चावतेन्द्रियकषायक्रियायोगेभ्यो यथाक्रमं पञ्चपञ्चचतुष्पश्चविंशतित्रिसङ्ख्येभ्यः प्रादुर्भवनशुभास्रवःकारणभेदात्कार्यकारणयोरभेदोपचाराच्च द्विचखारिंशद्भेदो यदाह-"इंदिअकसायअव्वयकिरिया पण चउर पंच पणुवीसा । जोगा तिण्णेव भवे वायालं आसवो होइ ॥१॥" ननु शुभाशुभकर्मणामादानस्य बन्धस्य हेतुरास्रव इत्युक्तं तच्च न सङ्गच्छते, बन्धाभावे आस्रवासम्भवात् , न बबद्धस्य कर्मबन्धहेखनुषङ्गो नाम, तथाले वा मुक्तानामपि तदनुषङ्गप्रसङ्गात् , अथाऽऽस्रवं विनाऽप्यस्ति बन्धः, कथं तर्हि तस्य बन्धहेतुत्वं नहि यदभावेऽपि यद् भवति तत्तद्धेतुकं, तथा सत्यङ्करस्यापि शिलाशकलहेतुकत्वप्रसङ्गादतः कथमास्रवस्य बन्धहेतुत्वमिति चेत्तन्न, उभयोरप्यन्योन्यं कार्यकारणभावाभ्युपगमात् , एवं तर्हि बन्धाभावे नास्रवस्तदभावे च न बन्ध इति परस्पराश्रयप्रसङ्ग इति चेन्न, बन्धासवयोः कार्यकारणभावप्रवाहस्यानादितया यथा पूर्वमुत्तरोत्तरं प्रतिकारणखाभ्युपगमे तदनवकाशात्, यदि हि य एवास्रवो यस्य बन्धस्य कारणं स एव बन्धस्तस्यैवास्रवस्य कारणं स्यात्तदा स्यादन्योन्याश्रयदोषो न चैवमस्ति, इतरथा बीजाङ्कुरादी: नामपि कार्यकारणभावाभावापत्तेः, नन्वेतावता बन्धास्रवयोः समकक्षतैव दर्शिता स्यान विशेषः, तथा च यथा बन्धहेतुरास्रव इत्यास्रवलक्षणं, तथाऽसवहेतुबन्ध इति बन्धस्यापि लक्षणप्रणयनं भवेत् , न चैवमस्ति, कषायाद्यनुविद्धस्य जीवस्य नूतनकम्मे 8
SOCIAMAKAASANSARKASANA
For Private and Personal Use Only