________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
4%A
SAROSAROKAR
माणि, 'सदिति' कर्मपुद्गलानां बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्जरणसंक्रमनिष्पादितस्वरूपप्रच्यवाभावे, सद्भावः सत्ता तदवस्थितानि कर्माणि प्रकृतयश्चतुर्विंशतिसत्कर्माणि तेषां समाहारः चतुर्विंशतिसत्कर्म तद्विद्यते यस्य स चतुर्विशतिसत्कर्मी, ४ अयमर्थः, इह केनचित् सम्यग्दृष्टिना सता अनन्तानुबन्धिनो विसंयोजिताः, ततस्तथारूपप्रवर्द्धमानप्रशस्ताध्यवसायाभावात् तावतैव स विश्रान्तो न मिथ्यात्वादिक्षयं प्रत्युद्युक्तवान् , ततः स कालान्तरे तथाविधसागय्यभावात् मिथ्यात्वम् अगमत् ।। ततो मिथ्यात्वप्रत्ययात् भूयोऽपि अनन्तानुबन्धिनो बन्धुम् आरब्धस्ततो यावत् अद्यापि संक्रमावलिकानुषक्तबन्धावलिका नातिक्रमति, तावत्तेषाम् उदयाभावात् चतुर्विंशतिसत्कर्मा भवति, ततश्च स 'मिथ्याभाव"मिथ्यावं 'न प्राप्नुयात्' न लभेत 'इतरथेति' अन्यथा कषायोपशमस्य लिङ्गखाङ्गीकार इत्यर्थः । इदमुक्तं भवति, एवं किलात्र कषायोपशमलिङ्गवादिनोऽनुमानम् अवत| रति, विवादाध्यासितः पुरुषः सम्यक्खसम्पन्नोऽनन्तानुबन्ध्युपशमवत्वात् , य एवं स एवं, यथा श्रेणिकादिरिति, । तन्न, चतुविंशतिसत्कर्मणा मिथ्याख गतेन अनन्तानुबन्धिनां बन्धसमये तदनुदयवता व्यभिचारात्, तस्य तदुपशमवतोऽपि मिथ्यात्ववत्वात् ।। व्यभिचारे चावश्यम् उपाधिसंभवात् , अप्रयोजकत्वं हेतोः, तथाहि मिथ्यात्वक्षयोपशमादिमत्त्वम् अत्र उपाधिः, । न|
१ नमो जिनपतये ॥ युगवरजिनपतियतिपति विरचितशुभपञ्च लिशिकाविवृतेः । कचिदपि किञ्चिद्विषमं पदमहमज्ञोऽपि विवृणोमि ॥ १॥ 'सदिति' सत्तासम्बन्धसंक्रमेति ।। पगइ ठिइरस पएसाण अन्नकम्मत्तणेण य ठियाणं । जं अन्नरूपकम्मत्तठावणं संकमो एसो ? बंधणसंकमलद्धत्तलाभकम्मरस रूप अविणा, सो निजरण संकम्मेहिं सम्भावो जो य सा सत्ता २ । निर्जरणसंक्रमाभ्याम् अविनाशे यः सद्भाव इति योगः ॥ २ 'संक्रमावलिकेति, यत्र कर्मप्रकृतेः प्रकृयन्तरे संक्रमो भवति | सा संक्रमावलिका, ततश्च संक्रमावलिकया सह बन्धावलिका संक्रमानुषक्तबन्धावलिका तां प्रत्येकं यावत् आवलिकाद्वयं नातिकाम्यतीत्यर्थः ।।
EXAM+1
For Private and Personal Use Only