________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
म्बन्धाभावात् कथमयम् अञ्जसा तल्लिङ्गं भवेत् , सम्यक्त्वमोहनीयत्वाभ्युपगमे वा, तेषां दर्शनमोहनीयत्वस्य चातुर्विध्यप्रसङ्गेन ४ बृहद्वृत्तिः 'दसणमोहंतिविहं', इत्यादि सूत्रोक्तसंख्यानियमस्तस्य भज्येत ॥ श्रावकप्रज्ञप्त्यामपि 'पढमकसा ओवसमादविक्खए' इत्यत्र प्रथम- १ लि. कपायाणाममि मिथ्यात्वसहचरत्वेन अतितीव्रतया च सम्यक्त्वप्रतिरोधकखविवक्षया तदुत्कटखप्रकटनार्थमेव तदुपशमः प्रशम-| तया व्याख्यातो, न तु मिथ्याभिनिवेशोपशमस्य सम्यक्त्वलिङ्गतानिरासार्थम् । आगमोपपत्तिभ्यां तस्य तल्लिङ्गत्वोपपादनात् । अत एव केवलज्ञानावरणक्षयलभ्यत्वेऽपि केवलज्ञानस्य कषायबलीयस्त्वप्रतिपत्त्यर्थम् "केवलियनाणलंभो नन्नत्थ खए कसायाणं" इत्याद्यागमेन कषायक्षयलभ्यत्वं तस्य प्रत्यपादि । “एवंच पयईए कम्माणं वियाणिउं वा विवागमसुहं ति । अवरद्धे वि न कुप्पइ उवसमओ सबकालंपि" इति श्रावकमज्ञप्तौ अपि कोपोपशमः प्राग् अभिहिततात्पर्य्यपरतया नेतव्यः । एषैव च कषायबलिष्टता आवश्यकेपि उपशमश्रेणिशिखरमध्यासीनस्यापि यथाख्यातचारित्रपात्रतया जिनसगोत्रस्यापि प्रतिपातं दर्शयता श्रीभ-4 बाहुस्खामिना अभिव्यञ्जिता । यदाह-"उवसामं पुवणीया गुणमहया जिणचरित्तसरिसंपि ॥ पडिवाइंति कसाया किं पुण: सेसे सरागत्थे"। एवं च सति यदा परकार्येषु अपि केवलज्ञानोत्पत्तिप्रतिरोधादिषु अमीषामव्याहता शक्तिः, तदा तस्याः स्वकार्ये किं वर्णनीयम् , तसात् कषायाणां चारित्रावारकत्वात् न तदुपशमः सम्यक्त्वलिङ्गम् इति स्थितम् इति गाथार्थः ॥ २॥ इदानीं कषायोपशमस्य लिङ्गत्वाभ्युपगमे अनिष्टप्रसङ्गद्वयमाह
चउवीससंतिकम्मी मिच्छाभावं न पाउणा इहरा ॥ अणउदये वा सम्म सासादणरूव कह हुज्जा ॥३॥ व्याख्या-'चतुर्विंशतिः' अष्टाविंशतेर्मोहनीयप्रकृतीनां मध्यात् अनन्तानुवन्धिनां विसंयोजनेन चतुर्विंशतिसंख्यानि सत्क-10
का
॥
५
॥
For Private and Personal Use Only