________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्यते । न च एतावता तदुपशमस्य सम्यक्खलिङ्गखम् उपपद्यते, तथाहि-असौ वढेधूम इव कार्यरूपं वा तस्य लिङ्गं स्यात् । तादृग्जलदपटलम् इव भाविनो वर्षस्य कारणरूपं वा, उभयरूपं वा, अजहद् बलाकात्तित्वम् इव जलाशयस्य अनुभयरूपं वा? |न प्रथमः सम्यक्त्वात् प्राग् उत्पादेन तस्य तत्कायेंत्वानुपपत्तेः। मिथ्यात्वक्षयोपशमावसरे एव प्रथमकषायोपशमस्यापि उत्पादात् । तस्य च सम्यक्त्वप्रागकालभावितात् । न च कारणात् कार्य प्राग् इति संभवति, येन एतदेवं स्यात् ॥ न द्वितीयः, मिथ्यात्वक्षयोपशमस्यैव सम्यक्त्वलाभकारणत्वेन तस्य तत्सहचारिमात्रत्वेन तत्कारणखानुपपत्तेः । किमत्र नियामकम् ? इतिचेत् न, यथागमं पूर्वसूरिभिस्तथा अभिधानात् । यदाहुः पञ्चाशकवृत्तौ श्रीमदभयदेवसूरयः सम्यक्खहेतोमिथ्यावक्षयोपशमस्स अवसरे ज्ञानावरणानन्तानुबन्धिकषायलक्षणचारित्रमोहनीयादिकर्मणामपि क्षयोपशमोऽवश्यमेव भवति, इति, न च तथापि । तदुपशमस्यापि सम्यक्त्वजनकत्रम् अस्तु इति वाच्यम् , मिथ्यात्वक्षयोपशमादेरेव तजनकलेन प्रतिपादनात् । तथाच आगमः, से य सम्मत्ते पसत्थसम्मत्तमोहणीय कम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगाइलिङ्गे सुहे आयपरिणामे पन्नचे, इत्यागमेन सम्यक्त्रमोहनीयशुद्धमिथ्यावदलिकसंवेदनोपशमक्षयसमुत्थत्वेनैव तस्याभिधानात् । एतदवष्टम्भेनैव च कषायोपशमस्य लिङ्ग| त्वेन सूत्रकृतापि उपपत्तिभिरग्रे निराकरिष्यमाणत्वात् ॥ न तृतीयः, कार्यकारणत्वे हि तस्य क्रमेण वा स्याता, योगपद्येन वा ? नाद्यः, पूर्वदोषात् ; नोत्तरोऽसंभवात् , न खलु तदेव तस्यैव युगपत् कार्य कारणं च भवितुम् अर्हति । न चतुर्थः, प्रतिबन्धासिद्धेः, तथाहि अनन्तानुबन्धिनां चारित्रमोहनीयत्वेन तदुपशमस्स चारित्रेणैव आहत्यसम्बन्धे, सम्यक्त्वं विना चारित्रं न संभवति, इति तद् द्वारैव सम्यक्त्वेन संबन्धात् , साक्षात् चारित्रमेव असौ गमयेत्, न सम्यक्त्वं, तथा च तेन सहस्वाभाविकस
For Private and Personal Use Only