SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्रव्यतया तद्रूपैर्मत्राक्षरैर्विप्रकृष्टानामपि भुजङ्गमादीनामाकर्षणमुपलभ्यते, द्रव्यत्वमेव चादृष्टस्योपपत्तिमम् अन्यथा तस्यात्मविशेषगुणले देहावच्छिन्नात्मव्यवस्थितस्यैव तस्य विवक्षितार्थक्रियाकारित्वं स्यात्, प्रयत्नादीनामात्मविशेषगुणानां तथा दर्शनात् तस्माद्द्रव्यमदृष्टं तथा च प्रयोगः धर्माधर्मौ द्रव्यम् आत्मनः पारवश्यकारणत्वात् सौवर्णायसनिगडादिवत्, पारवश्यं च हीनमा - तृगर्भादिस्थानप्राप्तिः, ननु भवत्वधर्मस्य पारतन्त्र्यकारणत्वं तत्फलस्य हीनगर्भादेः सर्वैरनीप्सिततया तस्य तदुपपत्तेः, न तु धर्म्मस्य तत्फलस्यानन्दादेः सर्वैरिष्टतया तस्य स्वातंत्र्यहेतुत्वात् तथा च भागासिद्धो हेतुरिति चेन्न, धर्मफलस्याप्युत्तममातृगर्भदेवाद्युत्पत्तिस्थानादेरुत्तमसत्त्वानामनभिमतत्वात् यदुक्तम् - जन्मापि किं न धीरस्य भूयो भूयस्त्रपाकरम् ।" तथा च तद्धेतुतया धर्मस्यापि पारतयहेतुलमुपपद्यत एव, यदि वा महाकुलीनानामपि संवेगवतामपि योगिनामपि केषाञ्चित्तपस्विनां निकाचितावस्थतया विपच्यमानात्पुण्यकर्मणो भोगलिप्सयोत्प्रव्रजनदर्शनेन तस्यापि पारतंत्र्य हेतुखावसायात्, नन्दिषेणादीनां तथा श्रवणात् कथमन्यथा तादृशो महासच्चास्तथा लोकोत्प्रासास्पदं कर्म समाचरेयुः, अथ गुणत्वेऽप्यदृष्टस्यात्मपारतत्र्यहेतुत्वे को दोषः १ इति चेन्न, गुणस्य द्रव्यपारतत्र्यहेतुखाभावात्, न खलु द्रव्यं गुणपरतत्रं, किं नाम गुणो द्रव्यपरतन्त्रः, अन्यथा गुणाश्रयो द्रव्यमिति द्रव्यलक्षणक्षतिप्रसङ्गात्, द्रव्यं चात्मेति कथं तस्यादृष्टाख्यगुणपारतन्त्र्यं स्यात् न च पुद्गलतया मूर्त्तेनादृष्टेनामूर्त| स्यात्मनः सुखदुःखजननद्वारेणानुग्रहोपघातौ विरुध्येते इति वाच्यं, ब्राह्मीपिपीलिकाद्युपयोगादमूर्त्तस्यापि ज्ञानादेर्वृद्धिहानिभ्या| मनुग्रहोपघातदर्शनेनाविरोधात्, ततः समीचीनमदृष्टस्य द्रव्यत्वम्, एतेन यत्कैश्विद्देवदत्तविशेषगुणप्रेरितभूतकार्याः शरीरादयः | कार्यत्वे सति तद्भोगसाधनत्वात् गृहादिवत्, अत्र हि नित्यैर्मनः प्रभृतिभिर्हेतोर्व्यभिचारो माभूदिति कार्यत्वे सतीति विशेषणमि For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy