SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बृहद्वृत्तिः लि. पंचलिंगी दगुणस्य गत्याद्यसम्भवेन तत्रापि गन्धसहकृतेन द्रव्येणैवाकर्षणं, केवलं गन्धभागस्योत्कटतया तेन व्यवहारः, ननु ग्रासादेराक पणं प्रयत्नेन गुणेनैवोपलभ्यते तदिहाप्यदृष्टेन तादृशेनैव तद्भविष्यतीति चेत् न, गुणाकृष्टत्वे साध्येऽयस्कान्तेन समीपवर्तिनो ॥११॥ लोहस्य तिलकनेत्राञ्जनादिना द्रव्यविशेषेण च दविष्ठस्याप्यङ्गनादेराकर्षणदर्शनाद्धेतोः सन्दिग्धविपक्षव्यावृत्तिकत्वेनानैका|न्तिकत्वात् , गुणाकृष्टत्वस्य हि साध्यस्य द्रव्याकृष्टत्वे विपक्षेपि हेतोर्नियतोपसर्पणत्वस्य दर्शनेन किं प्रयत्नेनेव ग्रासादिर|दृष्टेन गुणेन सताकृष्टाः पश्वादयो देवदत्तमुपसर्पन्ति, आहोश्विदञ्जनादिनेवाङ्गानादिर्द्रव्येण सतेति संदिह्यते, न चाञ्जनादौ सत्यपि | कदाचित्केषाश्चिदङ्गनाद्याकर्षणाभावान तस्य कारणत्वमिति साम्प्रतं, तथा सति प्रयत्ने सत्यपि कदाचित्केनापि ग्रासाद्यपसारणेन तदाकर्षणायोगात्तस्यापि कारणत्वं न स्यात् , अथादृष्टसहकृतमञ्जनादिकं कारणं न केवलं, तर्हि प्रयत्नोऽप्यदृष्टसहकृत एव कारणं न केवल इति तुल्यं, सकलकारणेष्वप्यदृष्टस्य सहकारित्वोपगमात् , अदृष्टस्यापि हि खफलजनने प्रतिबन्धकाभावादिसहकार्यन्तरापेक्षा किं पुनरशेषकारणानां, तथा हि यदा कस्यचिददृष्टं तस्यैव बलीयसाऽदृष्टान्तरेण प्रतिबद्धशक्तिकं भवति, येन वा पुत्रादिना| सह तददृष्टफलं भोक्तव्यं, तददृष्टमथापि न फलाभिमुखं सम्पद्यते, तदा प्रतिबन्धकादृष्टान्तराभावस्य पुत्राद्यष्टस्य च सहकारिBणोऽभावात्सदपि तददृष्टं फलं न जनयति, न चैतावताऽपेक्षकस्याञ्जनादेरदृष्टस्य वा खखकार्य प्रति कारणत्वं विरुध्यते,तथात्वे वाटू बीजादेरपि कस्यचित्कारणत्वं न स्यात् , सहकारिणं विना कुतोऽपि कार्यानुत्पादात् , नन्वदृष्टस्य द्रव्यत्वेऽप्यसत्पक्ष इव भवत्पक्षेऽपि है पश्वादिभिः संयोगाद्यभावात्कथमाकर्षणम् ? इति चेत् न, यथाजनादेरङ्गानादिभिस्तथेहापि स्यात् को विरोधः ? भवतापि चाप्राप्तस्यापि विपक्षादेरभिचारादिना हिंसाद्यभ्युपगमात्, अचिन्त्यो हि मणिमत्रौषध्यादिद्रव्याणां प्रभावातिशयः, अत एव शब्दस्य BASEARCRACADODARA ॥११॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy