________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पगमेन गुणद्रव्ययोस्तदसिद्धेः, नापि समवायेन परस्य तदसिद्धेः सिद्धावप्यन्यगुणस्यान्यत्रासमवायात् , समवाये वा देवदत्तधर्मसमवायेन यज्ञदत्तो दुःख्यपि सुखी स्यात् , शुक्लपटरूपसमवायेन रक्तोऽपि पटः शुक्लो भवेत् , न च समवायद्वारा कस्यचित्केनाप्याकर्षाणमस्ति, संयोगद्वारेणैव तद्दर्शनात् , ननु चैत्रोच्चारितेन शब्देन गुणेनाप्याकार्यमाणस्य मैत्रस्य श्रोत्रे समवायादाकर्षणं : संभवति, शब्दश्रवणानन्तरं मैत्रस्य चैत्रसमीपागमनदर्शनात् , तथा चास्ति समवायद्वारा गुणेनाप्याकर्षणमिति चेत् न, शब्दस्य द्रव्यत्वेन गुणत्वासिद्धेः, तथाहि-शब्दो द्रव्यं स्पर्शवत्त्वाद् घटवत्, न च स्पर्शवत्त्वमसिद्धं प्रतिघातकत्वेन कुड्यादिवत्तत्सिद्धेः, | उपलभ्यते हि तीववाद्यमानकांस्यपात्रादिसमुत्थेन शब्देन कर्णशष्कुल्युपगृहीतस्य श्रोत्रस्य बाधिर्यादिना प्रतीघातः, तथा च तस्य द्रव्यत्वसिद्ध्या द्रव्येणैव तेन मैत्रस्थाकर्षणं न गुणेन, अत्रच बहुवक्तव्यमस्ति तच्चाग्रस्तुतत्वानोच्यत इति,अथ मा भूद्धर्माधर्मयोः साक्षासंयोगः समवायो वा पश्वादिभिस्तथापि सर्वगते नात्मना संयुक्ताः पश्वादयस्तस्मिंश्च समवेतौ धर्माधर्मों इत्यात्मसंयोगद्वारा ताभ्यां दवीयसामपि तेषामाकर्षणमुपपत्स्यत इति चेन्न, आत्मनो देहमात्रतया सर्वगतत्वानभ्युपगमेन पश्वादिभिः संयोगासिद्धेः, भवता कथञ्चित्तदभ्युपगमेऽपि देहावच्छेदं विनाऽऽत्मगुणानां वृत्त्यलाभेन धर्माधर्मयोरात्मसंयोगलक्षणद्वारस्याकाशसंयोगकल्पतया पश्वाकपणं प्रत्यकिञ्चित्करत्वात् , एवमपि वा वृत्तिलाभाभ्युपगमे देहावच्छिन्न इवात्मनि सर्वत्रापि ज्ञानेच्छासुखादयस्तद्गुणा उत्पधेरन् , तथा च व्यापकतया त्रैलोक्यवर्तिपदार्थज्ञानेनात्मनोऽनायासेन सर्वज्ञता सर्वज्ञानानुभवेन च सुखदुःखयोरपि प्रकर्षसीमा साधिता स्थात् , तन्न धर्माधर्माभ्यां गुणाभ्यां पश्वादीनामाकर्षणं सङ्गच्छते, ननु तथाऽपि गन्धादिना गुणेनैव मधुकरादीनामाकर्षणं दृष्ट, तथा च पठन्ति-"केतकीगन्धमाघ्राय खयमायान्ति षट्पदाः ।" तथा प्रकृतेऽपि कथञ्चिद्भविष्यतीति चेन्न, द्रव्यानाश्रितस्य
For Private and Personal Use Only