________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandit
4-5
पंचलिंगी
बृहद्वतिः
॥१०९॥
%9-%
4
हिंसास्तैन्यादावधर्महेतौ प्रवत, पुरुषोपरागापनचैतन्यतया हि सा तथा प्रवर्त्तमाना पुरुष नरकादिषु दुःखं भोजयेत, धर्माधर्मयोः खर्गनरकादिफलत्वेन प्रतिपादनात् यदाह-"धर्मेण गमनमूर्द्ध गमनमधस्ताद्भवत्यधर्मेण ।" पुरुषस्यात्यन्तोपकारिणीलि बुद्धिस्तदुक्तम्-"नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतस्तस्यार्थमपार्थकं चरति ॥१॥" तन्नैतस्यास्तं प्रत्यहितं कर्तुमुचितं, न च पुरुष एव हिंसादौ प्रवर्तते न बुद्धिरिति वक्तुं युक्तं, तस्य सर्वथा निष्क्रियता भ्युपगमात् , अपि चानुभूयमानतया सुखदुःखयोस्तथात्वम् अन्यथा स्रक्चन्दनाङ्गनादिसंश्लेषात्सुषुप्तमूर्छितादीनामपि सुखित्वादि
प्रसज्येत, एवं च सति सुखदुःखधर्मयोगेन बुद्ध्या तदनुभावुकया भवितव्यं, तथा चात्मा सुखाद्यनुभविता न स्यात् , न ह्येकेन है सुखदुःखयोरुपभोगेऽन्यस्यापि तयोरेवोपभोगसम्भवः, तथा सति देवदत्तेन सुखादेरनुभवे यज्ञदत्तस्यापि तदनुभवापत्तेः, अथ
बुद्धिः स्वयमनुभूय तज्जातीये सुखदुःखे पुरुषमनुभावयतीति चेत् न, बुद्धेः स्वयं साक्षात् सुखाद्यनुभवानभ्युपगमात् , पुरुषार्थमेव तस्याः सर्वथा प्रवृत्तेः, तस्मान्न बुद्ध्याश्रितो धर्माधर्मावात्मनि सुखदुःखयोर्हेतू अपि त्वात्माश्रितावेवेति, तदेवं साङ्यैकदेशिमतेऽपि नात्मनो धर्माद्यनाधारस्य सुखाद्युपभोगो घटामश्चतीति स्थितम् । नैयायिकादयस्तु धर्माधर्मयोरात्मधर्मत्वमिच्छन्तोऽपि तद्गुणत्वमाचक्षते, तथा हि तेषां तत्साधकमनुमानं-पश्वादयो देवदत्तगुणाकृष्टा देवदत्तमुपसर्पन्ति तं प्रति नियमेनोपसर्पणवत्त्वात् ग्रासादिवत् , अत्र दृष्टान्ते ग्रासादेराकर्षणं प्रयत्नेनात्मगुणेन परेषां विवक्षितं, प्रकृते तु पश्वादीनां देवदत्तात्मगुणाभ्यां
४ ॥१०९ धर्माधर्माभ्यामित्युपसर्पणवत्त्वं हेतुः, पश्वादीनामाकर्षणहेतोरदृष्टस्य गुणत्वं साधयति, तदयुक्तं, लोके हि रज्ज्वादिना पश्वादेराकषणं संयोगादिद्वारा दृष्टम् , इह त्वदृष्टेन पश्चादीनामाकर्षणं केन सम्बन्धेनाभिमतं ? न तावत्संयोगेन व्ययोरेव तस्य भवदभ्यु
A
A-%
%
4
For Private and Personal Use Only