SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandie यपि व्याहन्येत, नचायो वास्तवः कथं बुधानाच बुधावकयामा वृद्धिधर्मलात, |भिमानो बुद्धितत्त्वे चाचेतनेऽपि चेतनवाभिमान इत्यादिकं हि तन्मतं, तत्र यदि कृत्यध्यवसायेन की बुद्धिरिष्यते तदा य एवाहं चेतयामि स एव करोमीति कृतेश्चैतन्येन सामानाधिकरण्यं न स्यात् चैतन्यस्य पुरुषधर्मखात् कृतेश्च बुद्धिधर्मसात् , बुद्धिभेदाग्रहादात्मनि कर्तृवाभिमानाद्धान्तिरियमिति चेत् , चेतन एव कर्ता तदुपधानाच्च बुधावकामपि कर्तृवाभिमान इति बुवाणः कश्चिद्वाचाटो दुर्निवारः स्यात् , तथा च कृत्यध्यवसायो वास्तवः कथं बुद्धेर्भवेत् ? बुद्धिनिष्पादितेन च सुखदुःख| परिणामेनात्मनः परिणामितया कौटस्थ्यमपि व्याहन्येत, न च बुद्ध्युपरागादात्मनो भोक्तत्वमप्यताचिकमिति वाच्यं, तस्य तत्र वास्तवतयाऽभ्युपगमात् , तदुक्तम्-सर्व प्रत्युपभोगं यसात्पुरुषस्य साधयति बुद्धिः। सर्व शब्दादिग्रामं प्रत्याश्रित्य य उपभोगः सुखाद्यनुभवस्तमित्यर्थः, अपि च धर्मादयो भावा बुद्धेः कुतस्त्याः ? प्रकृतेः खकारणादिति चेत् न, तस्यास्तदनभ्युपगमात् , अभ्युपगमे वा सैव बुद्धिरिति व्यपदिश्यतां, कृतं तस्याः प्रकृतिव्यपदेशेन, अथ स्वाभाविका बुद्धधर्मादयस्तर्हि | तत एवात्मनः सुखादिभोगसिद्धेः किं तदर्थेन ब्रह्मचयोंदिना कायक्लेशेन, अथ ब्रह्मचयोदेरेव बुद्धौ तेषां जायमानखादागन्तवस्ते | तत्रेति चेत् , तत्किमेतजन्मभाविनः प्राच्यजन्मभाविनो वा ? न प्रथमः, तदाहि ब्रह्मचर्यादिसमनन्तरमेवात्मनः सुखाद्युत्पाद प्रसङ्गात् , धर्मादिभावाष्टकसमृद्धाया बुद्धनित्यसंनिकर्षात्सुखाद्युत्पादसामर्थ्येन विलम्बायोगात् , भवत्वेवमेवेति चेत् न, प्राग्भ| वसश्चिताभ्यामेव धर्माधर्माभ्यां प्रायः सुखादिलाभस्य प्रमाणोपपन्नतया सर्वतीर्थकैरभ्युपगमात् , नापि द्वितीयः, बुद्धेरनित्यत्वाभ्युपगमेनोपरमे तद्धर्माणां धर्माधर्मादीनामप्युपरमात्, नहि धर्मिण्यसति तद्धावस्थानसम्भवः, तथा च सतीह जन्मनि कि कृतः पुरुषस्य सुखादिभोगः स्यादिति लाभमिच्छतो नीच्या अपि हानिः संवृत्ता, यदि च हितैषिणी बुद्धिः कथं पुरुषार्थ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy