________________
Shri Mahavir Jain Aradhana Kendra
पंचलिंगी
॥१०८॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शरीरादिषु सुखदुःखोपभोगो नान्यस्येति प्रतिनियमाभावप्रसङ्गात् ननु यस्य भूतैः कायाकारपरिणतैस्तपस्यादिना धर्माधर्मौ जन्येते तस्यैव तत्सम्बन्धात्तौ भोगं सम्पादयतो नान्यस्येति कथमनियमः १ इति चेन्न, यस्येति यच्छब्दनिर्देशस्य भूतातिरिक्तस्य भवताऽनभ्युपगमात्, अभ्युपगमे वा स एवात्मेति, तथा च यस्यात्मना यथा धर्माधर्मावर्जितौ तस्य तज्जनितेषु शरीरादिषु तथैव भोगो नान्यस्य इत्यात्मसम्बन्धेनैव नियमसिद्धिः अन्यथाऽऽत्मसम्बद्धधर्माधर्मानभ्युपगमे देवार्चनादेव फलहेतुलाभ्युपगमे तस्य विनश्वरलेन कालान्तरभाविनः फलस्यानुपपत्ति: प्रसज्येत, तथा च तदर्थस्य सदनुष्ठानस्य भस्मनि हुतकल्पता स्यात्, तस्मादात्मसम्बद्धौ क्षेत्रकालादिसहकार्यपेक्षया च फलोपभोगं यावदवस्थायिनौ जगद्वैचित्र्यकारणं तावभ्युपगन्तव्यौ, फलोपभोगेन तदपगमे च प्रेत्यभावः, शुक्लध्यानादिना सर्वथा तत्क्षये च मोक्षोऽपि सङ्गच्छते, अपरथा भूतानां नित्यतया शरीराद्यपाया - भावेन तौ न भवेतामिति, अत्र च प्रयोगः -विवादाध्यासितं जगद्वैचित्र्यमात्मसम्बद्धपदार्थविशेषपूर्वकं वैचित्र्यत्वात् घटपटादिवैचित्र्यवत्, अत्र च दृष्टान्ते कुलालाद्यात्मसम्बद्ध प्रयत्नरूपपदार्थविशेषपूर्वकखं प्रकृतेः पुनरप्रयतमानस्यापि भोगदर्शनेन धर्माधर्मपूर्वक भावनीयमिति, तस्मात्साधूक्तं 'जं समाभूय'त्ति, अथवा यस्मात् समानि भूतानि चैतन्यादिस्वभावतया तुल्याः सर्वेऽप्यात्मानः ततस्तद्गतकारणवैचित्र्येणैव तेषां सुखिदुःख्यादिभेदेन वैचित्र्यं सङ्गच्छते नान्यथेत्यर्थः । एतेन पुरुषभो तृवादिसांख्यैकदेशिमतमप्यपाकृतं वेदितव्यं, तथा ह्यकारणमकार्यः कूटस्थनित्यचैतन्यस्वभावः पुरुषः, आदिकारणमचेतना परिणामिनी च प्रकृतिः, तत्कार्य च बुद्धिः सा च पुरुषस्य सुखादिभोगकरणशीलतया कृत्यध्यवसायव्यापारा तीर्थिकैरात्मधर्मलाभ्युपगतधर्माधर्मादिभाववती 'च, पुरुषस्तु सर्वथा पुष्करपलाशवन्निर्लेपो भोक्ता च बुद्धिपुरुषयोस्तु परस्परं भेदाग्रहान्निष्क्रियेऽपि पुरुषे कर्तृत्वा
For Private and Personal Use Only
बृहद्वृत्तिः ५ लि.
॥१०८॥