SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit चेत् न, हेतुनिरपेक्षतया यद्येतद्विवक्षितं तदा पूर्ववत्तयोः सततोत्पत्तिप्रसङ्गेनासम्भाव्यतानुपपत्तेः,तस्मात्सहेतुकलं तयोर्वक्तव्यं, तत्रापि . न प्रसिद्धभूतहेतुकत्वं तेषां शश्वद्भावेन तद्धेतुकत्वे तयोरप्यसंभाव्योपस्थितखाभावेन कादाचित्कत्वासम्भवात् तसाद्भूतातिरिक्तेनातीन्द्रियेण सुखादिकारणेन भवितव्यं, भवतु तःकमेव किश्चिद्भूतातिरिक्त तत्कारणम् , अविलक्षणादपि कारणात्कार्यवेलक्षण्योत्पाददर्शनात् , यथा मार्तण्डमण्डलात्प्रकाशस्तापश्च तथेहाप्येकस्सादेव कुतश्चित्कारणात् सुखिदुःख्यादिभेदेन जगद्वैलक्षण्यमुपपत्स्यते ? इति चेत् न, तद्धि निरपेक्षं वा, सापेक्षं वा? नाद्यः, युगपदेव सुखादि कार्योत्पादप्रसङ्गात् , अनपेक्षतया तस्य कालविलम्बायोगात्, न द्वितीयः, अपेक्षणीयं हि तस्य दृष्टं स्याददृष्टं वा ? न प्रथमः, दृष्टस्य भूतादेरपेक्षायां तस्य सदा सन्निहितलेन पूर्ववत्कार्ययोगपचापातात् , न द्वितीयः,भूतपश्चकातिरिक्तस्य तदपेक्षणीयस्यान्यस्यादृष्टस्यानभ्युपगमात् ,शक्तिभेदेनैकरसादपि हेतोः कार्यवैचित्र्यं जनिष्यत इति चेत्तस्यासौ शक्तिभेदो नैसर्गिक औपाधिको वा आद्यश्चेत् , तस्य शश्वद्भावेन कार्यस्यापि तथाखप्रसङ्गः, द्वितीयश्चेत् सोऽप्युपाधीनां युगपत्सम्पातेन यदि युगपद्भावी तदा पूर्ववत्प्रसङ्गः, क्रममावी चेत् , ननूपाधीनां क्रममा-15 वित्वं कुतस्त्वं तद्धेवन्तरादिति चेत्तस्यापि तदन्यसाद्धेतोस्तदित्यनवस्था, तस्मादधिकमवाहभिया शक्तिभेदस्थाने कारणानेकखमेव ऋमिककार्यवैचित्र्यविधानचतुरमिष्यतां किमेकस्य शक्तिभेदकल्पनेन ? भवतु तर्हि तयोरन्योन्यसजातीयमेव किश्चित्कारणद्वयमिति चेन्न, अन्यूनाधिकतया तस्यात्यन्तसाजात्ये सुखकारणमेव दुःखकारणमिति न तहुःखं किन्तु सुखमेव तत् स्यात्, सुखमपि वा दुःखमेव स्यात् , दुःखहेतुसजातीयेन जनितत्वात् , उभयमपि चोभयात्मकं भवेत् , शक्तिवैजात्यात्तयोः कार्यवैचित्र्यमिति चेन्न, विजातीयसामग्रीजन्यत्वेन हि शक्तिवैजात्यं, तथा च शक्यभिन्नात्मनोः सुखदुःखहेत्वोरपि कथमैकजात्यम् , For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy