SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी बृहद्वृत्तिः ५लि .. ॥१०६॥ RECRRORSCORRESS गादेव घटते नान्यथेत्यर्थः, ननु दृष्टेभ्य एव भूतेभ्यः सुखाद्युपपत्तौ किमदृष्टादृष्टकल्पनया दृष्टात् कार्योपपत्तौ हि नाऽदृष्टं परि- कल्प्यत इति न्यायात् इत्यत आह-'यतः' यसाद्धेतोः 'समानि' साधारणानि 'भूतानि' पृथिव्यादीनि कायाकारपरिणतान्यपि, यदि हि भूतेभ्य एव सुखदुःखोत्पादोऽभ्युपेयेत तदा तेषां साधारणत्वेन कस्यचित्कदाचित्सुखं कस्यचिद्दुःखमिति विभागो नोपपद्येत, सर्वेषां सर्वदा सुखं दुःखं वा प्रसज्येत, अस्ति चायं विभागस्ततो भूतेभ्योऽतिरिक्तं किश्चिदस्ति अनयोः कारणं, तच्चातीन्द्रियं पुण्यपापरूपम् , एतदुक्तं भवति-अस्ति तावत्प्रतिप्राणि सुखं दुःखं च स्वानुभवसिद्धं न चैतन्निनिमित्तं भवितुमर्हति, तथाविधस्स हि परमाणुवत्सर्वदा सत्त्वं वन्ध्यासुतवद्वा नित्यमसत्त्वं प्रसज्येत, कदाचित्कत्वं न स्यात् , आकस्मिकलात्कादाचित्कत्वमिति चेत्किमिदमाकसिकलं , कारणनिरपेक्षा उत्पत्तिरिति चेत् , तर्हि सततोत्पत्तिप्रसङ्गः सामग्रीवैकल्यप्रतिवन्धयोरभावात् , तथा च कथं तयोः कादाचित्कत्वम् , अथ न कसाच्चिद्भवत इति व्युत्पत्त्या कारणोत्पत्तिभ्यां विरहितबमाकमिकलमुच्यते, भूयोऽपि कथं तर्हि कादा चित्कत्वं ? तदाहि तयोनित्यत्वं वा स्यादत्यन्तासत्त्वं वा, भवतु नित्यखमिति चेन्न, तयोरुत्पादव्ययधर्मकत्वोपलम्भेन तद्वाधात् , अस्तु तर्हि अत्यन्तासत्त्वमिति चेन्न, अनुभवविरोधात्, सर्वैरपि तयोरध्यात्म संवेदनात्, अथ कसाचिदप्यन्यसाम भवतः किन्तु खसादित्याकस्मिकखमिति चेत् , ननु तदपि स्वं किमसत् सद्वा? असच्चेत्कथं तसादुत्पत्तिः ? असतः कस्यचिदुत्पत्त्यभावात् , सच्चेत् तर्हि किमुत्पत्त्या सत्त्वार्थमेवहि तस्या गवेषणात् , तस्य चोत्पत्तेः प्रागेव भावेन तस्या वैयर्थ्यात् , कार्यकारणभावस्योभयनिष्ठत्वेन वाज तदभावे तदनुपपत्तेरिति कथं खसादिति पक्षोऽपि साधीयान् स्यात् ? अथासम्भाव्योपस्थितखमाकस्मिकत्वं भवन्ति हि वक्तारो लौकिका इदमसाकं सम्प्रति व्यसनं कल्याणं वाऽकसादतर्कितमापतितमिति तयोरप्याकसिकलं तथेति ॥१०६॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy