________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ROGRASSADGA45451
दानदुर्ललिततयाऽकल्याण्यः, पुनः प्रकृतयः पूर्ववाक्ये समस्तमपि प्रकृतिपदमिहाप्यनुषज्यते अर्थानुरोधात् , पापरूपाः पापमित्यधर्म इति व्यपदेशभाजः 'तुः पुनरर्थः स चाशुभपदात्पुरः सम्बन्धित एव, ताश्च न्यशीतिः, तदुक्तम्-"थावरदसचउजाई अपढमसंठाणखगइसंघयणी । तिरिनरयदुगुवघायं वण्णचऊ नाम चउतीसा ॥१॥ नरयाउ नीयमसायघाइपणयालसहियवासीई । असुहपयडी उ दोसुवि वण्णाइ चउक्तगहणेण ॥२॥" अविरत्यादि निषिद्धानुष्ठानाशुभाध्यवसायरूपाः पापप्रकृति| हेतवोऽपि पापमित्युच्यन्ते, तथाऽप्यनयोः वरूपं न व्यक्तमवबुध्यामह इति चेत् उच्यते-शुभवर्णगन्धरसस्पर्शगुणाः शुभविपाकाश्च प्रकृतयः पुण्यमित्युच्यन्ते, अशुभवर्णा हि गुणा अशुभविपाकाच ता एव पापमिति, यदाह महाभाष्यकार:-"सोहणवण्णाइगुणं सुहाणुभावं च जं तयं पुण्णं । विवरीअमओ पावं न बायरं नाइसुहुमं च ॥१॥" तत्र 'न बायरं नाइसुहुमति न पर्व-18 तादिभावेन परिणतस्कन्धवत् उभयमपि स्थवीयः सूक्ष्मकर्मवर्गणाभिर्निष्पादितखात् , नापि परमाण्वादिवदणीय इत्यर्थः, तदेवं| पुण्यपापयोः स्वरूपमुक्खा फलद्वारेण ते एव व्यञ्जयन्नाह-'सुखिनः-सातमनुभावुकस्य दुःखिनश्च-असातं वेदयमानस्य जनस्स| जन्तुलोकस्य उपपातो-जन्म, स चेहात्मनो नित्यखेन प्रागभावावच्छिन्नप्रादुर्भावलक्षणजन्मानुपपत्त्या मनुष्यगत्यादिविशिष्टाभिर| पूर्वाभिः शरीरेन्द्रियबुद्धिवेदनाभिरभिसम्बन्धः, अत्र हि जगति कश्चिदीश्वरः कश्चिद्दरिद्रः कश्चिदुल्लाघः कश्चिदामयावी कश्चित्पार्थिवोऽन्यश्च रङ्कः कश्चिद्विपश्चित् इतरश्च बालिश इत्यादिविभागेन बहुलमुपलभ्यते सुखी दुःखी चोत्पद्यमानोजीवलोकः स च'इत्तुच्चिय'त्ति 'अत एव' असादेवात्मनः पुण्यपापप्रकृतिसम्बन्धादेव नखन्यस्माद्भूतपरिणामादेरपीत्यवधारणफलं, क्षेत्रकालादियोगेनहि विप च्यमाना एताःप्राणिनां सुखं दुःखं च सम्पादयन्ति, अथवा उपपाद उपपत्तिर्घटनेति यावत् , तेन सुखी दुःखीच जनः पुण्यपापयो
SAROKAROSAGARLOCANA
For Private and Personal Use Only