________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
| बृहद्वृत्तिः
॥१०५॥
SACREAL
कलन
इति चेत् न,तदाहि विश्वैकदेशनिषेधे साध्ये सर्व नास्तीति प्रतिज्ञाया व्याघातापत्तेः, न द्वितीयः, निषेध्य निषेधकयोस्तादात्म्यानुपपत्तेः, तथात्वे वा निषेधकेन निषेध्यनिषेधवनिषेध्येनापि निषेधकनिषेधप्रसङ्गात, विश्वाव्यतिरेके निषेधकस्याप्यसत्त्वप्रसक्तेः, निषेधकप्रमाणाव्यतिरेके वा विश्वस्यापि सत्त्वापत्तेश्च, मरीचिकाजलवदिति दृष्टान्तेऽपि येनैव बाधकप्रमाणेन जलस्यासत्त्वं गृहीतं तेनैव भौमोष्मसंवलितरविमरीचिनिचयरूपाया मरीचिकायाः सत्त्वमुपपादितं, तथा च साध्यविकलतयाऽसौ दृष्टान्ताभासः, जलस्या सत्त्वेऽपि मरीचिकायाः सत्वात् , तदेवं निषेधकप्रमाणनिरासेन पुद्गलास्तिकायसहकृतं जगदस्तीति व्यवस्थितमिति गाथार्थः।।८५॥ इह किल चार्वाकाः कायाकारपरिणतानि भूतान्येव सुखदुःखे जनयन्ति चेतनतया संवेदयन्ते च न तु तयोरसाधारणकारणतयाभिमते पुण्यपापे तदाश्रयतया परैरिष्टस्यात्मन एवाभावादिति, तयोरभावं प्रतिपद्यन्ते, नैयायिकादयस्तु सत्त्वाभ्युपगमेऽपि तयोरात्मगुणमाहुः, तदेतन्मतद्वयमपि सम्प्रति अपहस्तयितुं क्रमप्राप्ते पुण्यपापतचे उपपिपादयिषुराह
सुहपयडीओ पुण्णं असुहाओ हुंति पावरूपा उ । मुहिदुहिजणोववाओ इतुच्चिय जं समा भूया ॥८६॥ ___ व्याख्या-शुभाः-प्राणिनामैहिकामुष्मिकाभ्युदयहेतुतया कल्याण्यः, प्रक्रियन्ते-शुभाशुभपरिणामभाजा जीवेन प्रकर्षणात्मसान्निवय॑न्त इति प्रकृतयः-सद्वेदनीयादीनि कमाणि, ततः कर्मधारयः, ताः 'पुण्य' पुण्यमिति धर्म इति व्यपदिश्यन्ते, ताश्च द्विचत्वारिंशत्सिद्धान्ते पठ्यन्ते यदाह-"नरतिरिसुराउ मुच्चं सायं परघाय आयवुज्जो । तित्थुस्सासनिम्मेणं पणिदिवहरुसभचउरंसं ॥१॥ तसदस चउवण्णाई सुरमणुदुग पंचतणु उवंगतिगं । अगुरुलहुपढमखगई बायालीसंति सुहपयडी ॥२॥" |विरत्यादिविहितानुष्ठानशुभात्मपरिणामरूपाः पुण्यप्रकृतिहतवोऽपि च पुण्यमिति गीयन्ते, तथा अशुभाः-शुभविपरीतफल
॥१०५॥
For Private and Personal Use Only