________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्यात् । न चेदाक्षिपेन्न तर्हि तयोर्नास्तिता, तथा च कथं प्रतिज्ञार्थः सङ्गच्छेत ? तथा च स्वार्थप्रतिक्षेपकत्वेन नामात्प्रतिज्ञादिवाक्याद्भवदभिमतसिद्धिः, हेतोश्च ज्ञेयत्वेऽपि सत्त्वाभ्युपगमात्, तेनैवानैकान्तिकत्वात् , न च निषेधकं प्रमाणं निषेध्यस्य विश्वस्य | सर्वथा सत्त्वं विना प्रवर्तितमुत्सहते, लब्धरूपस्य कचित्कस्यचिनिषेधात् नहि सर्वदा सर्वत्र घटस्थासचे नास्तीह भूतले घट इति व्यवहारो निषेधप्रमाणादुदेतुमर्हति, लोकव्यवहारसिद्धं विश्वमस्तीति चेत् , अथ कोऽयं लोकः ? को वा तव्यवहारः ? यदि परीक्षको लोकस्त व्यवहारस्तु विचारस्तत्सिद्धं चेद्विश्वं मन्येथाः, न तत्र निषेधकं प्रमाणं प्रवर्तितुं क्षमते, परीक्षकविचारोपपन्नस्य विश्वस्य यत्नशतेनापि निषेद्धुमशक्यत्वात् , अथ पामरादिलॊकस्तब्यवहारस्त्वविचारितरमणीयो बोधस्तत्सिद्धे तसिनिषेधक प्रमाणं प्रवर्त्यति, तस्याऽवास्तवत्वेन निराकर्तुं सुशक्यत्वादिति चेत् , ननु निषेधकमपि प्रमाणं पामरादिव्यवहारसिद्धं चेत्, न | तेन विश्वनिषेधः कर्तुं शक्यः, प्रमाणाभासत्वेन तस्य विधिनिषेधयोरन्यतरसिन्नप्यसामर्थ्यात्, परीक्षकव्यवहारसिद्धं चेत्तत् किं विश्वाव्यतिरिक्तमव्यतिरिक्तं वा? नाद्यः, विश्वव्यतिरिक्तस्य वास्तवस्य तस्याऽभावात् , भावे वा विश्वस्य वन्ध्यासुतस्येवात्यन्तासत्वेन विधिनिषेधव्यवहाराविषयत्वात्तस्य तत्र प्रवृत्त्ययोगात्, प्रवृत्तौ वा विश्वस्य कचिद्देशकालादौ सत्त्वाभ्युपगमप्रसङ्गात् , अपरथा निषेधासम्भवात् , एवमपि वा हठात् तद्यतिरिक्तत्वाभ्युपगमे निरधिकरणस्य तस्यानुपपच्या किमधिकरणेन तेन भवितव्यमिति वक्तव्यं, परीक्षका उत्पादकत्वादिना तदधिकरणमिति चेन्न, तेषां विश्वान्तर्भावात् , बहिर्भावे वा सकलप्रमाणप्रमेयप्रमातृवाचकतया जगति प्रतीतस्य विश्वशब्दस्य निखिलस्याभिधेयशून्यतया शशविषाणशब्दायमानतापत्तेः, तथा च कस्तदर्थ निषेधेत , मूकीमावस्यैव सहृदयानां तत्र न्यायोपपन्नत्वात् , १ प्रमेयायेकदेशवाचकतयाऽपि विश्वशब्दस्य सार्थकता ?
For Private and Personal Use Only