________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
॥१०४॥
एका गतिः ? नहि लयदा समदर्शनं तद्देशकालाध्यनिरालम्बनखविपर्ययव्य तथा च हेतोम
शश्वत्सत्त्वस्यासत्त्वस्य वा प्राप्तः, नित्यं सत्त्वमसत्त्वं वा ऽहेतोरन्यानपेक्षयेति न्यायात, अपि च येनैव प्रमाणेन जाग्रत्प्रत्यया गृहीतास्तेनैव तदर्थानां साक्षादनुभूयमानतयाऽर्थक्रियाकारितया च तत्प्रत्ययानां सालम्बनत्वं गृहीतं, तथा च हेतोर्धर्मिग्राहकप्रमाणवाधः, स्वप्नजागरप्रत्ययानां चोभयेषामपि सालम्बनखसिद्धौ साध्यनिरालम्बनखविपर्ययव्याप्तलेन विरुद्धतापि, | भवतु वा निरालम्बनं खप्नप्रत्ययस्य तथापि यदा खप्नदर्शनं तद्देशकालतयाऽर्थक्रियाक्षममर्थ जागरितः कश्चित पुमान् पश्यति, प्राप्नोति च तदा का गतिः? नहि खयापि तत्र निरालम्बनखं वक्तुं शक्यं, तदर्थस्स तथैव प्राप्तः, तथा च साध्यविकलो दृष्टान्तः, एवं च सति प्रयोगः-खानप्रत्ययाः सालम्बनाः, जागरोपलब्धस्यैवार्थस्य प्रकाशकलात्, सत्यखानप्रत्ययवत्, न च संशयविपर्ययप्रत्ययाभ्यां हेतोळमिचारः, विप्रकर्षादिकारणेनेन्द्रियापाटवादिना परस्परल्यावर्त्तकधर्मानुपलम्भाद् यथाक्रममुभयैककोयल्लेखेनानवधारणावधारणात्मकतया स्थाणुरजताद्यर्थान्तरप्रतिभासेनासत्यवेऽपि पुरोवर्त्यर्थालम्बनलेन तयोः सालम्बनखसिद्धिः, सर्वथार्थाप्रतिभासे तयोरुत्पादस्यैवाभावात् , तथा च ताभ्यां व्यभिचारशङ्कानवकाशात् , अपि च प्रतीयते येनार्थ इत्यादि प्रत्ययशब्दार्थविवेचनेनापि प्रत्ययानां सालम्बनत्वमेव सिध्यतीति, एतेन यदपि जगतोऽपलापाय सर्व नास्ति ज्ञेयत्वात् मरीचिकाजलवदिति साधनमुपन्यस्यते, तदपि प्रतिक्षिप्तम् , अत्र | तावत्प्रतिज्ञापदयोाघातः, सर्वपदेन हि प्रमाणप्रमेयरूपं जगदाक्षिप्यते, तच्चेत्कथं नास्ति तद्ब्राहकप्रमाणपरिच्छिन्नस्य विश्वस्य नितरां नास्तिता विरोधात्, नास्ति चेत् कथं सद्वाचकसर्वपदाभिधेयता नाम, प्रतिज्ञार्थश्च यदि प्रतिज्ञाहेतुराक्षिपेत्तदा कथमसया प्रतिज्ञाहेतुवचनाभ्यां सर्वनास्तित्व-ज्ञेयत्वलक्षणयोस्तदर्थयोः प्रतीतिर्जायेत ? कथं वाऽसतो हेतोः साध्यानुमितिः
॥१०४॥
For Private and Personal Use Only