SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir CASSSSSS. मेवार्थानामनुभवाहितसंस्कारादिनिमित्तात् साक्षादनुभूयमानतयेव तत्र प्रतिभासात्, तदत्यन्तासत्त्वाभ्युपगमे च जागरितैरपि तेषां तजातीयानां वार्थानां वन्ध्यासुतादीनामिवानुपलम्भप्रसङ्गात् , न च स्वप्नार्थेभ्यो जागरार्थानां विजातीयत्वमिति वक्तव्यम् , अत्यन्तासदालम्बनतया स्वप्नजागरावस्खयोरविशेषेण भवतामुभयावस्थोपलभ्यानामप्यर्थानां सजातीयत्वात्, न च खिमार्थानां सर्वथार्थक्रियावैकल्यं खप्नानुभूतसीमन्तिनीकुचकुम्भपरीरम्भतद्विप्रलम्भजनितानाम् अमन्दानन्दाश्रुपुलककपोलविकासादीनां विषादवदनवैवादीनां चार्थक्रियाणां जागरेऽपि दर्शनात् , न च स्वप्नदृष्टात्यन्तासत्कामिन्याद्यालम्बनभ्रान्तज्ञानजन्यत्वं तासामर्थक्रियाणां न तु कामिन्याद्यर्थजन्यत्वमिति वाच्यं, तथा सति वन्ध्यासुतजन्मादिप्रत्ययेभ्योऽपि हर्षाद्यर्थक्रियाणामुत्पादप्रसङ्गात् , अत एव जाग्रद्दशाभाविसप्रत्यूहरम्भोरूसम्भोगसुखविमुखतया खनिम्ननिर्विघ्नवनाधिगम्यकामिनीरतकामुकैः स्वप्नमहिमानमातन्वानैः कैश्चित्पठ्यते-“सा मूर्तिः सरसोज्ज्वला समधुरा स्मेरो दृशां विभ्रमस्तल्लावण्यमकृत्रिमामृतमहो? सृष्टिः कथं तादृशी। स्वप्न ? त्वच्चरणौ नमामि करुणा भूयोऽपि संधीयतां तस्याः शिल्पविधौ प्रजापतिधुरा धातुं त्वमेव क्षमः॥१॥" तसात्स्वप्नार्थानां तद्देशतया तत्कालतया वाऽनधिगमेनासत्त्वं वक्तव्यं, न चैतावता तत्प्रत्ययस्य सर्वथा निरालम्ब&ानतोपपादयितुं शक्या, रिपुप्रध्वंसप्रेयसीविप्रयोगादिप्रत्ययानामवितथनिमित्ताभिज्ञदैवज्ञप्रतिज्ञातभावितनयजन्मप्रध्वंसादिप्रत्य यानां च हर्षशोकादिनिबन्धनानां निरालम्बनतापत्तेः, अतीतानागतार्थालम्बनतया तत्प्रत्ययानामसदालम्बनत्वाविशेषात् , तथा च हर्षशोकादिकारणत्वं तेषां न भवेत् , अन्ततो भवत्पितृपितामहादीनां सम्प्रत्यसत्त्वेन तत्प्रत्ययस्यापि निरालम्बनत्वप्रसङ्गात् , नासन्नेव मत्पित्रादय इतीष्टमेवेदमिति चेन्न, भवजन्मनो निर्हेतुकतापातात् , आपद्यतां का नो हानिः इति चेन्न, भवतः For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy