SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailassagarsuri Gyanmandit पंचलिंगी 83-% बृहद्वृत्तिः ५लि. ॥१०॥ प्रमाणान्तराप्रतिहतं स्ववचनखक्रियावज्ञानव्याघातादिदोषरहितं स्वार्थप्रतिक्षेपकयुक्तेरनाक्षेपकं वाक्यमर्थप्रतीतेरङ्गमिति, साधनवाक्यं चेदं भवता प्रयुक्तं स्वार्थप्रतिक्षेपमाक्षिपति, तथा हि निषेध्यतया सिसाधयिषितमालम्बनं साधनप्रत्ययस्य द्विधा भवति, प्रतिपच्यनुबन्धि व्यापारानुबन्धि च, तत्राद्यं साधनमेव प्रतीयमानस्यैव साधनस्य साध्यसाधकखात्, न खलु सत्तामात्रावस्थिताद्धमादग्निप्रतीतिर्जायते, द्वितीयं तु साध्यमालम्बनं साध्ये व्याप्रियमाणतया साधनप्रत्ययस्य साध्यप्रतीतिहेतुखात, न बनावव्याप्रियमाणामप्रत्ययात्पर्वतेऽग्निमत्ताप्रतीतिः, तदेवं व्यवस्थिते सवेप्रत्ययनिरालम्बनतावादो यदि प्रत्ययखादिति साधनप्रत्ययमप्यास्कन्दति, तदा कथं साधनार्थप्रतीतिः कथं वा तद्व्यापारानुबन्धिविषयरूपस्य निरालम्बनाः प्रत्यया इत्यस्य साध्यार्थस्थापि प्रतीतिः स्यात, साधनप्रत्ययस्योभयथाऽपि निरालम्बनलेनाघ्रातखात्, अथ नास्कन्दति कथं तर्हि सर्वनिरालम्बनखवादो घटामियात, साधनप्रत्ययस्य प्रत्ययवेऽपि सालम्बनखात्, तथा च प्रत्ययखादितिहेतोस्तेनैव व्यभिचारात , एवं च स्वार्थस्य निरालम्बनबस्य च प्रतिक्षेपेण कथमस्साद्वाक्यात् साध्यं सिध्येत् ? किञ्च सर्वशब्देन स्वप्नप्रत्ययस्याप्याक्षेपेण पक्षनिक्षेपादृष्टान्ताभावः, अथ स्वप्नप्रत्ययस्य दृष्टान्तीकरणात्तव्यतिरिक्तानां जाग्रत्प्रत्ययानामेव सर्वशब्देन साकल्याभिधानं, तर्हि जाग्रत्प्रत्यया निरालम्बना इत्येव प्रतिज्ञायतां किमपक्षस्यापि पक्षतासन्देहापादकेन सर्वशब्देन, स्वप्नजाग्रत्प्रत्ययाभ्यां विना जगति प्रत्ययान्तरस्याभावात् , योऽपि खप्नप्रत्ययवदिति दृष्टान्तस्तस्यापि निरालम्बनलं कथमवसितं, जागरावस्थायां स्वप्नदृष्टानामर्थानामना सादनात्, अर्थक्रियाऽक्षमवाच्चासत्त्वावधारणेन, तत्प्रत्ययस्यासदालम्बनत्वादिति चेत्, न तावत्स्वप्नार्थानां खरविषाणादीनामिवात्यन्तासत्त्वं येनात्यन्तासदालम्बनत्वेन खरविषाणादिप्रत्ययस्येव तत्प्रत्ययस्यापि निरालम्बनत्वं स्यात् , जागरोपलब्धाना %4%AR ॥१०॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy