________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SAMRODAMARCAS
वष्टम्मेन जाग्रत्प्रत्ययानामपि निरालम्बनखं साधयाम इति मनसि कृखा तत्सिद्धये सर्वे प्रत्यया निरालम्बना प्रत्ययत्नात् स्वप्नप्रत्ययवदिति च साधनमुपन्यस्यन्ति, तन्मतमुत्तरार्द्धन निराकर्तुमाह
'सुमिणेवीत्यादि' स्वप्नेऽपि खप्नप्रत्ययेऽपि आस्तां जागरप्रत्यये, अनुभूयते जाग्रदवस्थाभाविपदार्थानुभवजनितसंस्कारादिम| हिना खप्नद्रष्ट्रा प्राणिना साक्षादिव प्रतीयते, दिनेति जागरावस्थोपलक्षणं, तेन जाग्रदवस्थायामुपलब्धः प्रत्यक्षानुमानशब्दादि
प्रमाणैः साक्षात्कारानुमितिश्रवणादिविषयतया परिच्छिन्नः 'स्फुट' निश्चितं सकललोकप्रतीतिसिद्धमेतदिति यावत् , अर्थो वस्तु | | घटपटादिः, जागरप्रत्ययस्तावत्प्रायः सन्तमेवार्थ प्रकाशकतयाऽवलम्बते, स्वप्नप्रत्ययोऽपि दिनोपलब्धं तमेव नान्यमित्यपेरर्थः, | इयांस्तु विशेषः-जागरे तद्देशकालतयाऽर्थः प्रकाशते, स्वप्ने त्वतद्देशकालतया एतावतैव च स्वप्नार्थोऽसन्निति गीयते, न तु | सर्वथाऽसत्वेन, एतदुक्तं भवति-यदि हि स्वप्नप्रत्ययः शशविषाणादिप्रत्यय इवात्यन्ताऽसन्तमर्थ विषयीकुर्यात् , तदाऽ|नुमन्येतापि तस्य निरालम्बनख, न त्वेवमस्ति, जाग्रदवस्थानुभूतमेवार्थमालम्ब्य तस्योत्पत्तेः, अत एव खप्नकारणाभिधाय| कमाषेम्-"अणुहूअदिवचिन्तिय सुअपगइविगारदेवयाणूगा । सुमिणस्स निमित्ताई पुण्णं पावं च नाभावो ॥१॥" नाभाव | इति, नात्यन्तासन्नर्थः, स्वप्नकारणमित्यर्थः, न चानुपलब्धचरस्यापि चन्द्रमण्डलकवलानादेराकलनादनुपलब्धार्थगोचरखमप्यस्ति
खानप्रत्ययस्येति वाच्यम्, अन्यत्र पृथगुपलब्धयोरेव चन्द्रमण्डलकवलनयोः कुतश्चिद्वासनावेशात्सम्बद्धतयाऽऽरोप्य तत्रानुभवात् , | एतेन सर्वे प्रत्यया निरालम्बना इत्यादि यदुक्तं तदपि प्रत्युक्तं, परप्रत्यायनार्थ हि वाक्यं प्रयुज्यते, वाक्यं चाकासायोग्यताऽऽसच्यादिविशेषणनिकुरुम्बकरम्बितमपि स्वार्थस्याप्रतिक्षेपकमर्थप्रतीतेः कारणं यदाह-आकाङ्कायोग्यतासचिमत्तया प्रतिसंहितं,
करण
For Private and Personal Use Only