________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी एवं च यथा तेषां खरूपेण संयोगस्तथा परमाणोरपि परमाण्वन्तरैभविष्यति को विरोधः, न तृतीयः, वादिप्रतिवादिभ्याड बृहद्वृत्तिः
तस्थानभ्युपगमात , तन्न परमाणोः षडंशतापच्याऽभावसिद्धौ ज्ञानमात्रं जगदिति, एतेन मूर्त्तत्वच्छायाववादयोऽपि परमाणोः सांश-IIलि . ॥१०२॥ त्वप्रसाधका हेतवो निरस्ताः, तत्सिद्धौ धर्मिग्राहकप्रमाणबाधेनैषां कालात्ययापदेशात् , तदसिद्धादाश्रयासिंद्धेः, यन्मूर्त तत्सावयव
मित्यादि व्याप्त्यसिद्धेश्व, परमाण्वपढ़वे व्याप्तिविषयस्य घटादेरप्यपलापेन दृष्टान्तासिद्धेः, छायाऽप्यधस्तनपरमाणोरुपरितनपरमा-|
णुस्थितिमात्रनिबन्धना नतु तदवयवाधीनेति, ततोऽपि न सावयवत्वसिद्धिः, एवमपि तदभ्युपगमेऽवयवावयविप्रसङ्गस्य कचिदप्य18. विश्रान्त्याऽनवस्थाप्रसङ्गादिति, परमाणुसिद्धिः, तैश्च व्यणुकादिक्रमानियमेन स्थूलावयव्यारभ्यते, परमाणुष्वेव सश्चितेष्ववयवि-13
| बुद्धिने तु तदारब्धः कश्चित्सोऽस्तीति चेत् न, सञ्चितानामपि तेषामिन्द्रियग्राह्यत्वायोगात्, यदाहि त्रसरणवोऽपि मिलिता अपि | वातायनविवरनिपतितदिनकरालोकं विना न दर्शनपथमवतरन्ति, तदा कैव कथा परमाणूनामैन्द्रियकत्वे महत्त्वं बैन्द्रियकोपल8 ब्धिकारणं, यदाह-महत्वादनेकद्रव्यत्वाद्रूपविशेषाच्चोपलब्धिरिति, न च महत्त्वं तेषामस्ति परमाणुत्वविरोधात् , नापि समूह एव 81
तेषां महत्त्वं, तथा सति विशकलितानामपि तेषां समूहेनावस्थितानामैन्द्रियकत्वप्रसङ्गात् , विशिष्टोत्पादात्तद्भविष्यतीति चेत् , एकस्थूलपरिणामात् कोऽपरो विशिष्टोत्पादः, तसादैन्द्रियकत्वान्यथाऽनुपपच्या तदारब्धोऽवयवी वा स्वीकर्तव्यः परिहर्तव्यं | | वैन्द्रियकत्वं परमाणूनामेकैकशो मेलकेन वा तथैव तेषां प्रत्यक्षत्वानुपपत्तेरित्यवयवसिद्धिः,तदेवं बाह्यार्थमपरवानाः साकारज्ञान- 8 ॥१०॥ वादिनः पुद्गलरूपवाह्यार्थसमर्थनेन गाथापूर्वार्द्धन निरस्ताः, माध्यमकास्तु ज्ञानमात्रमप्यपलपन्तो जगतोऽप्यलीकतामातिष्ठन्ते, तेहि स्वप्नावलोकितानामर्थानां जाग्रदवस्थायामनासादनादसत्त्वेन तत्प्रत्ययस्य निरालम्बनत्वं तावदुभयवादिसिद्धमतस्तदृष्टान्ता
For Private and Personal Use Only