SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A AAA+ACAN सम्भवात् ज्ञानखमस्तु इति चेत् न, लोकायतमतानुपङ्गप्रसङ्गात् , गौरखादिधर्माणां ज्ञानात्मादिष्वसम्भवेन तत्सहकृतस्य चैतन्यस्य | शरीर एवोपलम्भन कायाकारपरिणतानि भूतान्येव चेतयन्ते, न तु तदतिरिक्तः कश्चिच्चेतन इति शरीरचैतन्यवादश्चार्वाकाणामेव शोभते, नतु हानोपादानादिव्यवहारान्यथानुपपत्च्या चेतसि बाह्यार्थानुपगच्छतां वाचि पुनः कुतोऽप्यभिनिवेशात्सचराचरं विश्वं ज्ञानसञ्ज्ञया प्रलपतां भवतां, किञ्च शरीरचैतन्योपगमे लौकायतिकैरिवातिरिक्तज्ञाननिरासेन बाह्यार्थ एव खयापि स्वीकृतो | भवेत् , सोऽयं व्याघ्रभिया पलायमानस्य निर्भाग्यतया तन्मुख एव निपातः, न तृतीयः, शरीरं विना ज्ञानस्यानुत्पत्या शरीरतया तस्य खाकारारोपानुपपत्तेः, आरोपे वा, सति शरीरे ज्ञानोत्पत्त्या तेन शरीरतया बहिःस्वाकारारोपः तसिंश्च सति ज्ञानोत्पाद इति परस्पराश्रयप्रसङ्गात् , तसाज्ज्ञानाद्वैतमिच्छतापि तदधिकरणं शरीरमवश्यमेषणीयं, तदुपगमे च तन्नान्तरीयकनिष्पत्तयो घटपटादयोऽप्येष्टव्याः, नच परमाणुढ्यणुकादिपरिणामिकारणकलापं विना शरीरादिनिष्पत्तिरिति परमाण्वादयोऽप्यभ्युपेयाः, नन्वेवमपि परमाणोर्निराकारकः पदयोगो न समाहितः ? इति चेत्, अथ कोऽयं युगपत्षयोगः ? किं षण्णां परमाणूनां मध्यपरमाणुना सह समानदेशवम् ,आहो युगपत्सम्बन्धः? सोऽपि संयोगः, समवायो वा ?,आद्यश्चेत् अत्यल्पमिदमुच्यते, कोटेरपि मूक्ष्मपरिणामभाजां तेषां समानदेशवस्वीकारात् ,मूर्चानां समानदेशखं विरुध्यत इति चेत् न, अपवरकाधवच्छिन्ने नभोदेशे स्थूलावयविनामपि प्रभूतप्रदीपप्रभापवनादीनां तप्तायःपिण्डादिषु चायस्तेजःप्रभृतीनां समानदेशलेनावस्थितरुपलम्भेन परमाणूनां तथालेविप्रतिपत्तेः, नच तेन परमाणोः षडंशतापत्तिः, षण्णामपि समानदेशन मध्यपरमाणुना सह पदिक्संयोगाभावात् , न द्वितीयः, नहि संयोगवादिनामप्यंशद्वारकः पदार्थानां संयोगः किन्तु स्वरूपद्वारकः, अंशद्वारा तदभ्युपगमे निरंशानामाकाशादीनां तदभावापत्तेः, For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy