________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SASARAMCOMS
सिन्नेव विपर्ययज्ञाने भ्रान्ताभ्रान्तत्वलक्षणविरुद्धधर्मयोगव्युत्पादनविरोधात् , अत एवावयवेभ्यो भेदादेकत्वम् अभेदाच्चानेकत्वम-181 वयविन उपपद्यते, एकान्तेनैकत्वे स्थूलस्य ग्रहणाग्रहण-कंपाकंप-रागारागाऽऽवरणानावरणादिभिर्विरुद्धधर्मसंसर्गेणावयविनो भेदप्रसङ्गात् , तथात्वेऽप्यभेदे विश्वस्याप्यभेदापत्तेः, एकत्वानेकत्वापगूढे वाऽवयविनि न विरुद्धधर्माध्याससम्भवः, अवयवेभ्योऽभेदादेकैकावयवरूपतयाऽनेकत्वे भेदाच्चैकपरिणामविशिष्टतयैकत्वे, कतिपयावयवानां दर्शनेन कम्पेन च, निखिलावयवानामदर्शनेनाकम्पेन च तस्य ग्रहणाग्रहणयोः कम्पाकम्पयोश्चोपपत्तेः, एवं रागारागादेरप्यनेकबैकलाभ्यामविरुद्धधर्मता बोद्धव्या, ननु ग्रहणाग्रहणादीनामविरोधापादनाय व्यवस्थापितयोरेकखानेकखयोरपि परस्परविरोधात्कथमेकत्र समावेशः' इति चेत् न, अत्र प्रमाणोपपत्तेः, तथाहि विवादपदं स्कन्धोऽनेकोऽपि अवयवेभ्योऽभिन्नखात्, यः पुनरेकः सोऽवयवेभ्यो मिनो यथा स एवैकस्थूलपरिणामविशिष्ट इति, न चात्र हेतोरसिद्धिः दृष्टान्तस्य वा साध्यविकलता अवयवाभेदभेदयोः प्रागेव प्रसाधितनात् , प्रत्यभिज्ञानस्य चैकस्यापि सोध्यमित्युल्लेखेन तत्तेदन्तांशाभ्यां स्मृत्यनुभवरूपतया बयाऽप्यनक्षरम् अनेकखाभ्युपगमात्, एतेन यत्सचन्निरवयवं यथा विज्ञानं, संश्च विवादाध्यासितो नीलादिरित्यपि प्रत्युक्तं, तथाहि यदीदं स्वतत्रसाधनं तदा परमाणोः पक्षीकरणे सिद्धसाधनात् , मयाऽपि तस्य निरवयववस्वीकारात्, स्थूलस्यावयविनः पक्षीकरणे आश्रयासिद्धेः, तस्य भवताऽनभ्युपगमात् अभ्युपगमे वाऽवयविसिद्ध्या हेतोर्वाधितविषयवाद, अथ प्रसङ्गोऽयं, स ह्येवं प्रवर्तते यदि सबीलादिः स्यात् निरवयवः स्यादिति, तत्र सवेन हेतुना यस्यावयवानां निषेधः स प्रसञ्जितस्ते प्रतीता न वा प्रतीताश्चेत् असति अवयविनि कस्य तेऽवयवाः ? इत्यवयवी स्वीकव्यो भवेत् , तथा च सत्त्वान्नीलादेरवयवनिषेधप्रसञ्जनं कथं सिध्येत् । न चेत्प्रतीताः कस्य निषेधं प्रसञ्जयितुमुद्यतोऽसि ? न चायं
For Private and Personal Use Only