SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥१०॥ SSSSSSSS परमाणोः कुण्डबदरन्यायेन स्थितिमाधत्ते,तमन्तरेणापि तस्य खस्वभावादेव स्थित्यादेरप्रतीघातात् ,सतोऽप्यधस्तनस्योपरितनस्थित्या-13 बृहद्वृत्तिः दावकिश्चित्करलेन संयोगमात्र एवोपयोगात् , तस्मात्परमाणूनां परस्परसंयोग एवास्ति न तु वृत्तिरिति न तदृष्टान्तेनावयवावयविनोः सा उपपादयितुं युक्ता, एकान्तभेदेन चावयवेभ्योऽवयव्युत्पादाभ्युपगमे रण्डाकरण्डावस्थितेभ्यस्तन्तुभ्यः प्रादुर्भूतस्य पटस्थ तुलया मीयमानसावनमनादिविशेषेणारम्भकतन्तुगुरुखाद्गुरुखाधिक्यं प्रतीयेत, कारणगुरुत्वात् कार्यगुरुत्वस्याधिक्याभ्युपगमात्, न च कार्ये गुरुत्वमन्यन्नास्तीति वाच्यं, कारणगुणपूर्वकाः कार्ये गुणा इत्यभ्युपगमविलोपप्रसङ्गात्, न च पटादिलनरेणुकणनिकरगुरुत्ववत्सदपि कार्यगुरुत्वमल्पत्वान्न प्रतीयत इति वक्तव्यं, रेणुकणनिकरगुरुत्वस्याल्पत्वेनाप्यप्रतीतेरुपपत्तेः, अवयवापेक्षया तु अवयविनोतिमहत्त्वात्तद्गुरुत्वोपलम्भः केन वार्येत? अत एत यत्र रेणुकणानां भूयस्त्वं तत्रावयविनि तुलया मीयमाने तद्गुरुत्वातिरेकः प्रतीयत एव, तदेवमवयवेभ्योऽवयविनः कथश्चिदभेदसिद्धौ सत्यपि प्रत्यक्षे न्यायोऽप्यभिधीयते, अवयवेभ्योऽवयवी कथञ्चिदभिन्नः द्रव्यत्वे सति पृथगाश्रयानाश्रितत्वात् , यः पुनर्यस्माद्भिन्नो नासौ द्रव्यत्वे सति पृथगाश्रयानाश्रितः, यथा घटापट ४ इति व्यतिरेकी, पृथगाश्रयानाश्रितत्वेऽपि जातिगुणक्रियादिभिरवयवादिभ्य एकान्तभेदेन परेणाभ्युपगतैर्व्यभिचारो मा भूदिति द्रव्यत्वे सतीति हेतोर्विशेषणं, न चैकान्तेनाभेदोऽपि एकस्थूलतया प्रतिभासात् , आवरणशीतापनोदाधनेकार्थक्रियाकरणात् , एकदेशाकर्षणधारणाभ्यां समस्ताकर्षणधारणोपलम्भाव, तन्तवः पट इत्याद्यभिधानभेदात्, एभिस्तन्तुभिः पटो निष्पत्स्यत ॥१०॥ इत्यादिकार्यकारणभावव्यपदेशाच्चावयवेभ्योऽवयविनः कथञ्चिद्भदोपपत्तेः, न च भेदाभेदौ परस्परविरुद्धौ कथमेकत्र सङ्गच्छेते इति वाच्यं, प्रत्यक्षाधिगतेर्थे पर्यनुयोगानवकाशात् , इतरथा भवतोऽपि धर्मिणि सर्वमभ्रान्तं प्रकारे तु विपर्यय इति वचनादेक For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy