________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RRRRRRROR
दधीति प्रत्ययोऽबाधितेहप्रत्ययत्वात्सम्बन्धनिमित्तकः, अपि तु पृथगाश्रयाश्रितार्थगोचरतया इह तन्तुषु पट इति प्रत्ययस्ववाधितेहप्रत्ययोऽपृथगाश्रयाश्रितार्थविषयतया सम्बन्धनिमित्तको न भविष्यतीति को विरोधः ? भवतु वोक्तहेतोरिह तन्तुषु पट इति प्रत्ययः समवायसम्बन्धनिमित्तः, इह तन्तुपटादिषु समवायिषु समवाय इति प्रत्ययस्तु कुतस्त्यः ? समवायान्तरात् ! इति चेन्न तस्यैकवाभ्युपगमात् अनेकखाभ्युपगमे चानवस्थापातात् , तस्मात्समवायान्तरं विनापीह समवायिषु समवाय इति प्रत्ययः स्वीक
र्तव्यः, तथा च तेनैवाबाधितेहप्रत्ययखादिति हेतोरनैकान्तिकत्वान्न ततोऽपि समवायसिद्धिः, तदेवमेकान्तभेदे समवायेनापि है सम्बन्धेनावयविनोऽवयवा इति व्यपदेशो न सङ्गच्छते, वृत्तिविकल्पानुपपत्तेरप्येकान्तभेदो न घटते, तथाहि भिन्नो भावः
कचिद्वर्त्तमान एकदेशेन वा वर्तेत, यथा स्रक् सूत्रं पुष्पेषु, सर्वात्मना वा यथा नानाभाजनगतान्याग्रफलानि, अवयवी वाऽवयवेषु, न तावदेकदेशेन वर्त्तते, अवयवान् विना तस्यापरैकदेशायोगात् , योगे वाऽनवस्थाप्रसङ्गात् , नापि सर्वात्मनाऽवयवान्तरेष्ववृत्तिप्रसङ्गात् , न धेकत्रैव परिसमाप्तात्माऽन्यत्रापि वर्त्तत इति, वृत्तौ वा यावदवयवमवयविप्राप्तः, गोपालादीनामपि च सर्वात्मत्वत्तिप्रतीत्यभावात् , तन्त्वादिसञ्चयविशेषस्यैव तैरपि प्रतीतेः, कथं तेन वर्तेत ! न चैकदेशसर्वात्मभ्यां प्रकारान्तरमस्ति, ननु परमाणोः प्राच्यादिदिगवच्छेदेन परमाण्वन्तरैः संमृज्यमानस्यैकदेशसर्वात्मभ्यां विनापि वृत्तिरस्ति, तदवयवावयविनोरपि भविष्यतीति चेन्न, निरवयवपुद्गलानां परमाणूनां वृत्तेरसम्भवात् , तथाहि सावयवानां कुण्डबदरादीनां तन्तुपटादीनां वाऽऽधाराधये भावव्यवस्थापकः संयोगः, समवायो वा, भवता वृत्तिरभिधीयते, न च परमाणोः परमाण्वन्तरेण सहोत्तराधर्येण संयोगेऽप्याधारखमुपपद्यते,कुण्डं हि बदरस पततो गुरुखप्रतिबन्धेन स्थितिविदधदाधारो,बदरं वाऽऽधेयमित्युच्यते,नचाऽधस्तनः परमाणुरुपरितनस्य
For Private and Personal Use Only