________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandit
पंचलिंगी
बृहद्वृत्तिः
॥९९॥
पश्चाच्च तन्तूनां प्रतीतेः, पटस्य च तन्तुभ्योऽपृथग्देशत्वेन पूर्व चोपलम्भात् , पटे हि दृष्टे इह पटे तन्तव इत्येव प्रतीत्युदयात् , अथान्यतरस्यायुतस्य सिद्धिनिष्पत्तिः प्रतीतिर्वा, तत्रापि न तावदवयवानां तन्तूनां निष्पत्तेः प्रतीतेर्वा पटात् पृथगेव, पूर्वोक्त न्यायेन पृथग्जनैरप्यवगमात् , तथा चान्यतरस्य पटस्य तन्तुभ्योऽयुतसिद्धस्येति वक्तव्यं, न चैकस्याश्रयाश्रयिभावलक्षण: समवायः संभवति, तदेवं विकल्पचतुष्केऽप्ययुतसिद्धयोरित्यादिलक्षणानुपपत्त्या लक्ष्यस्य समवायस्याप्यनुपपत्तिः, अथ पटभावमापन्नास्तन्तवोऽपि पटादपृथग्भूता इत्ययुतसिद्धा अभिधीयन्ते, तथा च पटात्तन्तवोऽयुतसिद्धाः तन्तुभ्यश्च पट इत्ययुतसिद्धयोरित्यादिलक्षणमुपपत्स्यत इति चेत्, नन्वेवंविधस्यायुतसिद्धत्वस्य तन्तुपटयोरभेदमन्तरेणायोगात् सिद्धस्तयोरभेदः, तथा च तन्तव एव विशिष्टैकपरिणाममापन्नाः पट इति सामानाधिकरण्यमपि सङ्गच्छते, न चाभिन्नयोराश्रयायिभावस्तस्य द्विष्ठत्वादिति भूयोऽपि लक्षणासिद्धिरेव, अथ तन्तून् विहाय न पृथगाश्रयमाश्रयते पट इत्यपृथगाश्रयाश्रितखमयुतसिद्धखमास्थीयत इति
चेन्न, भिन्नयोहि तन्तुपटयोः समवायसम्बन्धात्परस्परोपसंश्लेषः साधयितुमुपक्रान्तः, स च तत्सम्बन्धात्यागप्ययुतसिद्धयोरित्यादि | लक्ष्यते, तथा च किं तेन खरससंश्लिष्टयोरवयवावयविनोः संश्लेषविधानच्छद्मना विश्लेषापादकेन समवायेन, एवमप्ययमास्थीयते
चेत्तथाऽपीतरेतराश्रयप्रसङ्गः, अयुतसिद्धयोहि तयोः समवायसम्बन्धः तत्सम्बन्धाचायुतसिद्धिरिति, अथेह तन्तुषु पट इति प्रत्ययः | सम्बन्धनि मित्तकोऽवाधितेहप्रत्यत्वादिह कुण्डे दधीतिप्रत्ययवत् , इत्यनुमानात्समवायसिद्धिरिति चेत् न, सम्बन्धः किं संयोगोऽभिमतः समवायो वा ? नाद्यः, तयोस्तदनभ्युपगमात् , न द्वितीयः, दृष्टान्तासिद्ध्या व्याप्त्यसिद्धेः, ननु मा भूव्याप्तिः पक्षधर्मताबलेन तु पारिशेष्यात्समवायसिद्धाविह तन्तुषु पट इतिप्रत्ययस्तनिमित्तो भविष्यति ? इति चेन्न, हेतोरप्रयोजकत्वात् , नहीह कुण्डे
+
For Private and Personal Use Only