________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मप्युपपत्स्यते इति को विरोध:,तदेवं सिद्धा बाह्यार्थापरनामानःपुद्गलास्ते च द्वेधा परमाणवः स्कन्धाश्च, तत्र स्थूलद्रव्यस्य मृत्पिण्डादेले| गुडायभिघाताद्यवयव क्रियाविभागादिना भज्यमानस्याणुतरतमादिभावाद् यतो नाणीयान् स परमाणुः, स च नित्यो निरवयवो वर्णा
दीनांच भूयस्त्वेऽप्येकवर्णरसगन्धः स्पर्शाष्टकमध्यादविरोधिस्पर्शद्वयभार असदादीन्द्रियागोचरोऽपि व्यणुकादिकार्यद्रव्यानुमेयः, Pकारणं च व्यनुकादिस्कन्धानां, न तु व्यणुकादिवत्कस्यापि कार्यमपि यदाह-कारणमेव तदन्त्यं नित्यः सूक्ष्मश्च भवति परमाणुः, एक-15
रसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥स्कन्धाश्च व्यणुकादयोऽनन्ताणुकपर्यवसाना अनेकविधाः, तेच परिणामिकारणपरमाणुनि-18 प्पाद्या विशिष्टैकपरिणामपरिणताः सावयवाश्व,परमाणव एव हि व्यणुकादिक्रमेण स्कन्धतया परिणमन्ते नतु परमाणुभ्यः पृथगुत्पद्य व्यणुकादयः समवायेन तेषु समवयन्ति, अत एवावयवेभ्यो नात्यन्तं व्यतिरिक्तोऽवयवीत्यभ्युपगम्यते, एकान्तभेदे ह्यवयविनोऽवयवा इति व्यपदेशः केन सम्बन्धेन प्रवर्तते, न तावत्तादात्म्येन भिन्नयोस्तदसम्भवात् , नापि तदुत्पत्त्याऽवयविनः अवयवानामनुत्पादात् , ननु मोत्पत्सत अवयविनोऽवयवास्तथापि सम्बन्धस्य द्विष्ठतयाऽवयविनोऽवयवा इति वदन् अवयवानामवयवीत्यपि व्यपदेशादवयवेभ्योऽवयविन उत्पादे तदुत्पत्तिः सम्बन्धो घटिष्यत इति चेन, धूमध्वजाभूमस्येवावयवेभ्योऽवयविनः पृथगुपलम्भप्रसङ्गात् नापि संयोगेन, अवयवावयविनोस्तदनभ्युपगात, अभ्युपगमे वा कुण्डाद्वदरमिवावयवेभ्योऽवयवी कदाचित् पृथगुपलभ्येत, समवायेन इति चेत्, कोऽयं समवायः ? अयुतसिद्धयोराश्रयाश्रयिभाव इति चेत्, केयमयुतसिद्धिः १ अयुतयोरवयवावयविनोः सिद्धिनिष्पत्तिर्वा प्रतीतिर्वा, अयुतयोरित्यपि, किं द्वयोरपि सम्बन्धिनोरपृथग्देशकालयोः, उतान्यतरस्यापृथग्देशकालस्य !न प्रथमः, तन्तूनां पटात् पृथग्देशत्वात् प्रथममेव चांशुभ्यो निष्पत्तेः, पटस्य च पश्चात्तन्तुभ्यश्च निष्पत्तेः, न द्वितीयः, पटात्पृथक
रकर
For Private and Personal Use Only