SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पंचलिंगी ॥९८॥ दाहरणेनासत्प्रकाशनशीलतया स्वप्नज्ञानस्येव विवक्षितज्ञानस्याप्यसन्नीलाद्युल्लेखितयाऽसत्यखमेवापद्येत, तदेवं प्रकाशमानखादपि हेतोर्न नीलादीनां ज्ञानखसिद्धिः, किञ्च ज्ञानशब्दो यदि कर्तृसाधनो यदि वा करणसाधन उभयथापि खव्यतिरिक्तप्रकाश्य परं कांक्षिपति, व्यवधानाव्यवधानाभ्यां कर्तृकरणव्यापारयोः कर्मविषयखात् कर्माभावे विषयाभावेन तयोर्वैफल्यापत्तेः, तच्च प्रकाश्यं परं कर्म अर्थ इति व्यपदिश्यते, न चार्थाभावात्स्वस्यैव प्रकाश्यतया कमतेति वाच्यम् , अर्थो भवतु मा वा भूत् परः, परप्रकाशकता तज्ज्ञानस्य खयाऽप्यभ्युपगन्तव्या, ननु खप्रकाशकमेव ज्ञानं कथं तस्य परज्ञानप्रकाशकतामभ्युपैति ? इति चेत् न, हिताहितप्रवृत्तिनिवृत्तिभ्यां प्रायशः परं ज्ञानस्य सवैरेव प्रतीतेः, तदप्रतीतौ तदनुजीविनां हानोपादानादिव्यवहारामावानिरीहं जगज्जायेत, भवतोऽपि परप्रतिपादनाय प्रयोगोपन्यासानुपपत्तेश्च, न्यायोऽप्युच्यते, यत्स्वप्रकाशकं तत्परमपि प्रकाशयति यथा सर्वज्ञज्ञानं खप्रकाशकं च विवादाध्यासितमिति, नन्वन्यथासिद्धोऽयं हेतुः सोपाधित्वात् , नहि खप्रकाशकलात्सर्वज्ञज्ञानं परप्रकाशकं किन्तु सर्वविषयवात् , विवादाध्यासितं तु ज्ञानं स्वप्रकाशकमपि भविष्यति सर्व विषयखाभावात् परप्रकाशकमपि न भविष्यतीति चेत्, न, उपाधिलक्षणाभावात् , साधनाव्यापकले सति साध्यव्यापक इति हि तल्लक्षणं, ततश्चासदादिज्ञानेन व्यभिचारतो यत्वप्रकाशक तत्सर्वविषयमिति व्यायभावेन साधनाव्यापकले सत्यपि, यत्परप्रकाशकं तत्सर्व विषयमित्यसदादिज्ञानेनैव व्यभिचारायाप्त्यभावेन | साध्यव्यापकत्वासिद्धेः, नन्वतावता भवतु ज्ञानस्य परप्रकाशकत्वं तथापि परमपि प्रकाशयन् सजातीयं ज्ञानमेव प्रकाशयति नतु विजातीयमर्थमपि, अत एव मयार्थस्य ज्ञानताऽभ्युपेयते जडयाजडेन प्रकाशायोगात्ततश्च तस्याप्रकाश्यतया सत्त्वमपि दुरुपपादमिति चेन्न, विजातीयाया अप्यनाद्यविद्यायाः सर्वज्ञज्ञानेन प्रकाशनात् , एवमर्थ जडमपि ज्ञानं प्रकाशयिष्यति, तत्प्रकाशितत्वाच्च तस्य सत्त्व ॥९८॥ For Private and Personal Use Only
SR No.020532
Book TitlePanchlingi Prakaranam
Original Sutra AuthorN/A
AuthorJineshwarsuri
PublisherPitambar Panna Shreshthi
Publication Year1919
Total Pages389
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy