________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
545554
नीलादेः, तस्य जडत्वेनार्थग्रहणपरिणामत्वाभावात् , अर्थग्राहकत्वपरिणामश्च ज्ञानस्य ग्राह्यग्राहकयोर्भेद एव युज्यत इति ग्राहकज्ञानाद्वाह्यस्य नीलादेर्भेदोऽभ्युपगन्तव्यः, यदपि दृष्टान्तस्य साध्यविकलतापरिहाराय खप्नदृष्टस्यार्थप्रबन्धस्येत्यादिलपितं, तत्रापि बाधकज्ञानं सत्यमसत्यं वा, सत्यं चेत्कथं तस्य सत्यताऽवसीयते स्वप्नदृष्टार्थस्य जाग्रदवस्थायामप्राप्तेः ? इति चेत्, एवं तर्हि यदर्थ दर्शयति प्रापयति च तत्सत्यं तथा च जाग्रवस्थाभाविनो बाधविकलस्य ज्ञानस्य प्राप्तियोग्योपदर्शितार्थप्रापकत्वात्सत्यत्वमास्थेयं, नचैवं सत्युपदर्शितार्थप्रापकत्वाभावाच्चन्द्रार्कतारकादिगोचरस्य ज्ञानस्यासत्यता प्रसज्यत इति वक्तव्यं, प्राप्तियोग्यत्वे प्रमातुरिच्छादौ च सति उपदर्शितमर्थमप्रापयत एव ज्ञानस्यासत्यताऽभ्युपगमात् , तथा चार्थमप्रापयतोऽपि चन्द्रादिज्ञानस्य सत्यत्वमेव विप्रकर्षादिना प्राप्तियोग्यत्वाभावेनापि तदर्थानां चन्द्रादीनामप्राप्त्युपपत्तेः, तसादाधकज्ञानस्य सत्यत्वमिच्छता बाह्यार्थसिद्धि| रवश्यमभ्युपेया, अथासत्यं बाधकज्ञानम् , एवं तर्हि स्वप्नदृष्टस्यार्थजातस्य सत्त्वप्रसङ्गो दुर्वारः, नचेदमिष्टं, ज्ञानं विना किमन्यत्तर्हि स्वप्ने प्रकाशते ! इति चेत् , दिनाद्यनुभूतश्रुतानामेवार्थानामनुभवातिशयसंस्कारावेशात्तत्र प्रकाशनात्, अत एवानुभवरूपस्मृतिविपर्ययात्मकत्वेन खप्नज्ञानस्यासत्यत्वं मनाग्मिद्धानुविद्धान्तःकरणस्य पुंसो दृष्टश्रुतानुभूतानामेवार्थानां स्मृती प्राप्तकालायामनुभवाभ्या-12 | सचिरपरिचयादिजनितसंस्कारोदोधात्साक्षादनुभूयमानतयेव तत्र प्रतिभासात् , न चैकान्तेन स्वप्नज्ञानस्यासत्यत्वं तदृष्टानामानामदृष्टादिसामय्या जाग्रदवस्थायामजाकृपाणीयसंवाददर्शनात्, तथा च खप्नदृष्टस्यार्थस्य बाधकज्ञानोत्पादेनाभावसिद्मा ज्ञानत्वं यत्प्रत्यपादि तदसङ्गतं, जागरावस्थायां तत्राविसंवादेन साक्षादर्थप्राप्त्या ज्ञानत्वासिद्धेः, न च बाह्यार्थ विना खरूपेण ज्ञानस्य सत्यासत्यत्वविभागोऽपि घटामधिरोहति प्रमाणामुपदर्शितार्थप्राप्त्यप्राप्तिभ्यामेव ज्ञानस्य सत्यत्वासत्यत्वव्यवहृतेः,अपि च स्वप्नदृष्टो
For Private and Personal Use Only