________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगीला खतः प्रकाशत्वेऽस्मदादीनामिव नीलादीनामपि चेतन्यादिच्छाद्वेषप्रयत्नादयः प्रादुर्भवेयुः, तथा च हिताहितप्राप्तिपरिहारोपाय-I बृहद्वत्तिः
परिज्ञाननिबन्धना हानोपादानादिव्यवहारास्तेषामपि प्रवर्तेरन् , न चतुथे:, प्रतिबन्धासिद्धेः, नहि यत्तेजस्तज्ज्ञानमिति व्याप्तिः। ॥९७॥18|कचित्सिद्धा, नीलादिषु तेजस्वासिद्धेश्वासिद्धो हेतुः, साधनविकलश्च दृष्टान्तः, अत एव न तेजस्त्वं ज्ञानत्वे प्रयोजक, किं तर्हि
खपरप्रकाशकत्वं, तदसिद्धं ज्ञानस्येति चेन्न, खसंविदितत्वेन वप्रकाशकत्वस्य भवद्भिरप्यभ्युपगमात्, ननु खकाशत्वमस्माभिरिप्यते ज्ञानस्य नतु खप्रकाशकत्वम् ? इति चेन, को बनयोविशेषः । एकत्र हि खतः प्रकाशते ज्ञानं नतु परेण प्रकाशत इत्यर्थः, अन्यत्र तु खं प्रकाशयति खयमेवेति फलतो नार्थभेदः कश्चित् , यदि परं भवतः खपक्षानुरागो विजृम्भते, परप्रकाशकत्वं तु देव| दत्तादिज्ञानस्य यज्ञदत्तेन चेष्टानुमानादिना परिच्छेदात्सर्वजनानुभवसिद्धमेव, न च खपरप्रकाशकत्वं नीलादिषु विद्यते, तत्कथं | तेषां ज्ञानत्वमुपपादयितुमुचितम् ? यद्येवं मा भून्नीलादीनां ज्ञानत्वं, स्वपरप्रकाशकत्वात्तु प्रदीपादीनां तदस्तु, एतावताऽप्यंशेनास्माकं समीहितसिद्धिरिति चेन्न, शब्दसाम्यमात्रेणानुमानाप्रवृत्तेः, वागादीनामपि गोशब्दवाच्यतामात्रेण विषाणितापत्तेः, अन्यद्धिज्ञानस्य स्वपरप्रकाशकत्वम् अन्यच्च प्रदीपादीनां, ज्ञानं हि संशयविपर्ययाद्यबाधिततया प्रमाणप्रमितिप्रमेयप्रमातृभावेन यथासम्भव स्वपरान् परिच्छिन्दन् स्वपरप्रकाशकं तदेव च प्रमाणमिति गीयते, यदाहुः सिद्धसेनदिवाकरपादाः-"प्रमाणं स्वपराभासं ज्ञान | बाधविवर्जितम् ।" इति, प्रदीपादयस्त्वचेतना एव शुक्लभाखरतयाऽऽत्मानमन्धतमसा व्यवहितान् नीलादींश्चार्थान् बाह्यप्रकाशा
DI||९७॥ न्तरनिरपेक्षतया द्रष्टृणां दर्शयन्तः स्वपरप्रकाशका इत्यभिधीयन्ते, तथा च कथं साम्यम् १ अथ यत्प्रकाशते यज्ज्ञाने परिस्फुरति, ज्ञानं यदाहकतया परिणमत इति यावदित्यर्थग्रहणपरिणामत्वं प्रकाशत्वं विवक्षितमिति चेत् , तदेतदनुमन्यामहे ज्ञानस्य न त्वर्थस्य
For Private and Personal Use Only