________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| दिसिद्धिमन्तरेणाभेदसाधकं प्रमाणमुत्थातुमर्हति, अन्यतरसम्बन्धिनोसिद्धेः, तथाहि अभेद्यं सिद्धं न वा ? न चेत्कस्य तत्प्रमाण-I मभेदं साधयेत् , सिद्धं चेत् स्वतः परतो वा ? खतश्चेत् कथमभेदसिद्धिः। परतश्चेत् परोऽपि सिद्धो न वा ? सिद्धोऽपि स्वतः परतो वा, स्वतश्चेत् कथं न साध्यविरुद्धभेदसिद्धिः, तां विना स्वपरविभागासिद्धेः, परतश्चेन्न, अत्रापि स्वतः परतो वा, परः सिद्ध इत्यादिक्रमेणानवस्थापातात्, न सिद्धश्चेत् न विवादविनिवृत्तेः, प्रतिपाद्यं परमन्तरेणाभेदसाधकप्रमाणोपन्यासवैयात, अस्तु तर्हि प्रकाशमानत्वं हेतुः, तथा हि यत्प्रकाशं तज्ज्ञानं यथा स्वप्नदृष्टं, प्रकाशन्ते च नीलादय इति, न च दृष्टान्तस्य साध्यविकलता | स्वमदृष्टस्याथेप्रबन्धस्य जागरावस्थायां बाधकज्ञानोत्पादेनाभावसिद्ध्या प्रकाशमानत्वेन च ज्ञानत्वसिद्धेरिति चेत् न, किमिदं प्रकाशमानत्वं प्रकाशसम्बन्धः? इति चेत्, अथ कोऽयं सम्बन्धस्तादात्म्यं वा तदुत्पत्तिा विषयविषयिभावोवा नायः, अतीतानागतानामर्थानां भिन्नकालत्वात् , वर्तमानानामपि भिन्नदेशत्वात् , प्रकाशतादात्म्यानुपपत्तेः, नीलाकारोत्पादंकाले च पीताकारमपि ज्ञानमुदियात् , नीलपीतयोरविशेषेण प्रकाशतादात्म्यात् , न द्वितीयः, प्रकाशादर्थस्यानुत्पादात्, स्वखसामग्रीतः सर्वभावानामुत्पत्तेः, | अमूतोन्मूत्तानुत्पत्तेश्च, उत्पादेऽपि वा भेदः स्यात्, जन्यजनकभावस्य धूमाग्योरिव भेदाश्रयत्वात् , तदभावेऽनुपपत्तेः, न तृतीयः, अर्थो विषयः प्रकाशो विषयी इत्यस्य विषयविषयिभावस्य भेद एवोपपत्तेः, अथ प्रकाशमानत्वं प्रकाशमात्रत्वं, न तु तत्सम्बन्ध इति चेत् ! तर्तिक ज्ञानत्वं वा, प्रकाशाधीनप्रकाशत्वं वा ? स्वतः प्रकाशत्वं वा, तेजस्त्वं वा ? न प्रथमः, साध्यसाधनयोरविशेषेण | हेतोः साध्याविशिष्टत्वप्रसङ्गाव, न द्वितीयः, अनभ्युपगमाव, नहि ज्ञानान्तराधीनप्रकाशं ज्ञानं भवता तस्य खप्रकाशस्वाभ्युपगमात्, तथा च ज्ञानत्वेन साध्यमाना नीलादयोऽपि स्वप्रकाशत्वात ज्ञानवन्न प्रकाशाधीनप्रकाशा भवितुमर्हन्ति, न तृतीयः,
For Private and Personal Use Only