________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पंचलिंगी
तालि
HEACOCCASEAXXX
रोपितेऽपि खाकारे बाधकबलात् कदाचिन्नेदं नीलमित्यादि ज्ञानमुदियात् न चैतदस्ति, अथादिमत्त्वात्तत्र बाधकज्ञानोदयः, इयं हा बृहद्वृत्तिः | त्वनादिरिति चेत् , तर्खेतस्याश्छायावत्सर्वदा साहचर्यात् ज्ञानस्य भ्रान्तत्वप्रसङ्गेनैव तत्त्वज्ञानानुत्पादापत्तेः, तथा च सार्वत्यहाने: परलोकानुष्ठानवैयर्थ्यप्रसङ्गः, भ्रान्ताभ्रान्तत्वविभागाभावेन च स्वप्नजागरावस्थयोरविशेषापत्तिः, बोध्यकर्तकरणकर्मदेशकालादिनबन्धः कादाचित्कसंवादवान् ज्ञानावस्थाविशेषो हि स्वमः, कर्तृकरणादिप्रबन्धे कस्यचिदेवार्थस्य कादाचित्कवाधवांश्च जागरः, स्वप्नज्ञानस्य च जागरज्ञानं बाधकमिति लोकप्रतीतिसिद्धं, लोको हि स्वप्नोपलब्धान् अर्थान् जागरावस्थायां तथात्वेनापश्यन् तदर्थक्रियाश्च अनासादयन् स्वप्नज्ञानस्यासत्यतां प्रत्येति, जागरज्ञानस्य चार्थक्रियादिप्राप्तेः सत्यतां, यदि चानाद्यविद्याच्छादितत्वेन सर्व ज्ञानं भ्रान्तमेवोदयते तदा कोऽनयोर्विशेषः स्यात् , किश्चासौ ज्ञानरूपा अज्ञानरूपा वा ? नाद्यः, अविद्याक्षतेः, न द्वितीयः, ज्ञानादन्यस्य परमार्थसत्त्वानभ्युपगमात् , अभ्युपगमे वा ज्ञानाद्वैतसिद्धान्तब्याकोपात् , अथाकारः सादृश्यमिति चेत्, केन ज्ञानस्य सादृश्यम् ? अर्थेन ज्ञानान्तरेण वा, न प्रथमः, न खल्वर्थो ज्ञानं जनयति, खाकारार्पणेन सरूपयति च इत्यर्थाकारं ज्ञानम् इत्यर्थसादृश्यं ज्ञानस्य सौगतिकैरिव भवद्भिरभ्युपेयते, बाह्यार्थानभ्युपगमात् , न द्वितीयः, ज्ञानान्तरेण खसंवेद्यत्वादिना ज्ञानस्य सादृश्येऽपि न तस्य बहिरारोपेण कश्चिदुपयोगः, तदा हि मत्सादृश्यमिदम् इत्याकारेण ज्ञानस्य बहिः खग्रहणप्रसङ्गेन नीलम् इत्याद्याकारण ग्रहणानुपपत्तेः, आकारः संस्थानमिति चेत् न, तदभावात् न हि नीलादेवि ज्ञानस्य संस्थान
X ॥९६॥ है किश्चिदुपलभ्यते, न च पूर्ववत्तेन काचन विवक्षितसिद्धिः, किश्च सर्वज्ञज्ञानेनानाद्यविद्याकलुषितानां संसारिसत्त्वचित्तानां सहोपल
म्भनियमादभेदे सर्वसर्वज्ञतापत्तिः, सर्वज्ञस्य वाऽसर्वज्ञतापत्तिः, भेदे वा तैरेव व्यभिचारादनैकान्तिकोऽयं हेतुः, न चाभेद्यनीला
2-6
%
For Private and Personal Use Only