________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
RECACAASAALCASSAMROSAGE
रूपान् गुणाँल्लक्षयित्वा वाहीके उपचर्यते, तथा च गौर्वाहीक इति व्याहारव्यवहारप्रतीतयः प्रवर्तन्ते, कचिन्मुख्यस्य गोर्दर्श|नादेव चैतासां वाहीके प्रवृत्तिः, न चात्र प्रत्यक्षोपलभ्यमाननीलादिरस्ति, सत्त्वे वा तस्यैव ज्ञानाद्भेदसिद्धेः सिद्धो बाह्यो नीलादिरर्थः, न च तद्गुणलक्षणद्वारादिनौपचारिकनीलादिशब्दविषयः कश्चिदर्थो विद्यते, यस्स ज्ञानेन तादात्म्यं स्यात् , नापि तृतीयः, भ्रान्तेरपि मुख्यासम्भवेऽनुपपत्तेः, वणियवीथ्याद्यनुभूतसत्यरजतो हि पुमान् मुक्ताकरवीरादौ भाखरत्वशुक्लिमादि भाजं पुरः शुक्तिशकलमवलोक्य तद्गुणारोपेणेदं रजतमिति विपर्येति, नत्वन्यथा, न चेह मुख्यो नीलादिः कचिदुपलब्धः, उपलब्धौ वा प्रागिव पारमार्थिकनीलादिसिद्धिः, न च तद्गुणाधारोपेण नीलादिभ्रान्तिगोचरः कश्चिदर्थोऽस्ति यस्य ज्ञानेन तादात्म्यं स्यात् , सच्चे वाऽभ्रान्तज्ञानतादात्म्यादर्थस्याप्यभ्रान्तिगोचरतापत्तेः, स्यादेतत्परमार्थसता अपरमार्थसता वा नीलेन ज्ञानस्याभेदाभ्युपगमेऽमी दोषा अनुषज्येरन् , न त्वस्माकमयमभ्युपगमः किन्त्वनाद्य विद्यासामर्थ्यात् ज्ञानमेव खमाकारं बहिरारोप्य नीलमिदम् इत्याद्याकारेण संवेदयते इति चेत् , अथ कोऽयमाकारः स्वरूपं वा, सादृश्यं वा, संस्थानं वा, नप्रथमः, ज्ञानस्य खप्रकाशरूपतया नीलमहमित्येव संवेदनं स्यात् न तु नीलमिदमिति, अथेन्द्रजालिकीव लोकं ज्ञानमप्यविद्या भ्रमयति, तेन स्वस्य बाह्यताऽऽरोपेण तथासंवेदनं न विरुध्यते इति चेत् न, सा ह्यविद्या संवृतिसती, परमार्थसती वा संवृतिसती चेत् न, अविचारितरमणीयतया वस्तुतस्तस्या असत्त्वेन ज्ञानव्यामोहनायोगात् , परमार्थसती चेत्, नन्वस्या बाधकप्रत्ययेन भवितव्यम् , अन्यत्र तथादर्शनात , अविद्यापरनाम्नो हि मिथ्याज्ञानात्पुरोवर्तिरजतमेतत् इति निश्चित्य तजिघृक्षया प्रवर्त्तमानः पुरुषः पश्चात्प्रत्यासीदन् व्यावर्त्तकधर्मदर्शनात्सञ्जातबाधः प्राह-भ्रान्तोऽहं नेदं रजतं शुक्तिरेषेति, तथेहाप्यविद्यावशाज्ज्ञानेन बाह्यतया
SAGAR
For Private and Personal Use Only