________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बृहद्वत्तिः
पंचलिंगीपलभ्यन्ते, ता एता इच्छादीनामेकान्तेन ज्ञानात्मकखे न भवेयुः, खरसप्रवृत्तप्रतिभासमात्रप्रवाहातिरिक्ताया अर्थक्रियाया भवन्मते
ज्ञानस्यासम्भवात , योऽप्यभेदसिद्धावेकमाञ्चन्द्राद्वितीयश्चन्द्र इति दृष्टान्तः, तत्रापि द्वितीयस्य चन्द्रस्यावास्तवस्यैव परमार्थसतश्च॥९५॥ न्द्रादभेदः, दार्शन्तिके तु नीलादेः परमार्थसत एव ज्ञानादभेदो विवक्षित इति वैषम्यं, तथाऽवधिभूतस्य चन्द्रस्य बाह्यतया पक्षनि
क्षेपाद् दृष्टान्ताभावोऽप्यत्र, अथापरमार्थसतो नीलादेशोनादभेदो विवक्षित इति चेत् , किमिदम् अपरमार्थसत्त्वमसत्त्वं वा, औपचारिकनीलादिशब्द विषयलं वा, भ्रान्तिगोचरखं वा? नाद्यः, असत्वं हि प्रागभावप्रध्वंसाभाववत्वं वा तस्मिन् देशे अविद्यमानलं वा अकिश्चिद्रूपलं वा! प्रागभावप्रध्वंसाभाववत्त्वमपि युगपद्वा क्रमेण वा ?, न प्रथमः, पृथक्कालभाविखेन तयोस्तद्वत्त्वस्य योगपद्यासम्भवात् , अथ क्रमेण तदा प्रागभाववतो नीलादेस्तदुत्तरकाले, प्रध्वंसाभाववतश्च तस्य तत्प्राक्काले परमार्थसत्त्वप्रसङ्गः, तथा च कालान्तरवर्तिनो नीलादेवर्तमानकालभाविना ज्ञानेन कथं तादात्म्यं स्याद्भिन्नकालत्वात् , तथात्वे वा नीलादेरपि वर्तमानत्वापत्तिः, तथा च भूतभाविनीलादिस्मरणादिवशात्तनीलमित्याद्याकारं यज्ज्ञानमुपजायते तन्न स्यात्, इदं नीलमित्याद्याकारमेव प्रसज्येत, अथ तस्मिन् देशेऽविद्यमानत्वमसत्त्वं, तन्न, तदा हि देशान्तरे नीलादेः सत्त्वप्रसङ्गः, न च देशान्तरस्थस्य नीलादेरेतद्देशभाविना ज्ञानेन तादात्म्यमुपपद्यते भिन्नदेशत्वात् , तथात्वे वा नीलादेरपि ज्ञानदेशत्वमापद्येत, न चेदमिष्टम् , अथाकिश्चिद्रूपत्वमसत्त्वं तदपि न, तदा हि यथाऽविद्यारोपितादपि नीलादिदं नीलमिति नीलाकारं ज्ञानं संजायते, तथा तस्मादेवेदं पीतमिति पीताकारं कथं तन्न भवेत् , को ह्यकिश्चिद्रूपतया नीलापीतयोर्विशेषः ? एवं च प्रतिभासनियमो न स्यात् , नापि द्वितीयः, मुख्याभावे उपचारानुपपत्तेः, गोशब्दो हि ककुदादिमदर्थगतजाड्यभारवहनादिगुणलक्षणद्वारेण वाहीकगतांस्तत्व-4
ROGRAM+
॥९५॥
+
For Private and Personal Use Only